पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.कथापीठे-योगनन्दपुत्रशापमोक्षौ ।।
२१
वृहत्कथामञ्जरी

प्रच्छन्नचारी सौहार्दाचलोऽहमवदं निशि।
शकटालः सखे धात्विबुद्धया रक्षितस्त्वया ॥ १७० ॥
अस्ति मे राक्षसो मित्रं स हन्ति मम हिंसकान् ।
भवता रक्षितो ह्यात्मा वर्तमानेन मद्धिते ।। १७१ ॥
इत्युक्त्वा दीप्तनयनं ध्यानमात्रादुपस्थितम् ।
करालाकारविस्फारं राक्षसं तमदर्शयत् ॥ १७२ ॥
ततस्तद्दर्शनाद्भीतः शकटालोऽभ्यभाषत ।
कथान्तरे मया पृष्टः कथामादित्यवर्मणः ।। १७३ ।।
आदित्यवर्मणो राज्ञः पुरा खैरवती प्रिया ।
अप्राप्तसंगमा मा गर्भमाधत्त निस्त्रपाः ॥ १७४
स तां विनष्टचारित्रा ज्ञात्वान्तःपुररक्षिणाम् ।
बचसा शिववर्माख्यं महामात्यमशक्कत ।। १७५ ॥
तं वयस्यस्य नगरं नृपते गवर्मणः ।
गूढलेखोदितवध बद्धमूलं विसृष्टवान् ॥ १७६
भोगचर्माणमासाद्य शिववर्माथ शङ्कितः ।
गूढलेखोदितं राज्ञा विवेद बधमात्मनः ।। १७७ ॥
सोऽब्रवीद्धोगवर्माणं तूणै छिन्धि शिरो ममः।
न चेत्प्रभुहितोद्युक्तः स्वयं छेत्स्यामि मस्तकम् ॥ १७८ ॥
श्रुत्वेति विस्मितेनाशु पृष्टो राज्ञानवीपुनः ।
पतामि यत्र निहतस्तत्रावृष्टिभयं भवेत् ॥ १७९ ॥
इत्याकर्ण्य भयाद्राजा विवेच्य सह मन्त्रिभिः ।
सुरक्षितं प्रयत्नेन खपुर विससर्ज तम् ॥ १८० ॥
अत्रान्तरे वधूरूपं स्थित्तमन्तःपुरे नरम् ।
आदित्यवर्मा विज्ञाय पश्चात्तापं समाययौ ॥ १८१ ॥
आदित्यवर्मकथा ॥ ४ ॥
इत्येवं कर्णचपला मदान्धा राजकुञ्जराः ।
विशृङ्खला विनश्यन्ति पतिताः स्मरशासने ॥ १८२ ॥


'भवानू ख... २. मतियाने नमीक्षतेख, ३. वै रेवती स.