पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाकचत्वाम् भूनन्दाख्यायिका ।
२६९
बृहत्कथामक्षरी।

वितस्तासलिले बुद्धा प्रयातो मन्त्रसप्पैः ।
विवृतं. सलिलद्वारमात्मना सत्तमोऽविशत् ।। ६५८ ॥
घोरान्धकारं नित्तीर्य दिनैः पञ्चमिरश्रमः ।
पातालगङ्गां सोऽपश्यच्छेषच्छायामिवोज्ज्वलाम् ॥ ६५९ ॥
सदा प्रचण्डमार्तण्डतापाद्भर्गमहीभृतः ।
मूलादिव मृतां स्फारस्फटिकस्यन्दवाहिनीम् ॥ ६६० ।।
कृष्णपक्षे क यातीन्दुनयनानन्दबान्धवः ।
इति पातालमन्वेष्टुं प्रविष्टामिव चन्द्रिकाम् ॥ ११ ॥
विलोक्य राक्णत्रासालक्ष्मी कण्ठावलम्बिनीम् ।
आनन्दंशायिनः शौरेलौलाहासच्छटामिव ॥ ६६३ ॥
स्नानाद्तक्लमास्तस्यां गत्वा दूर क्रमेण ते ।
अपश्यनराजतं वारु सरो हेमाजभूषितम् ॥ १३ ॥
रत्नपादपसंछन्नं हेमपक्षिकृतारकम् ।
विधेरपूर्वनिर्माणचित्रपत्रावलम्बनम् ॥ १६४॥
सुमेरुशिखरप्रख्ये प्रासादे तत्र काञ्चने ।
ते पूजयित्वा श्रीकण्ठं हेमाब्र्हाटकेश्वरम् ॥ ६६५ ॥
ददृशुर्विदुमतरं हेमचाखं महाफलम् ।
हेरम्ब विघ्नसंघातैः स्थितं तत्र तदात्मना ।। ६६६ ॥
तत्फलं भक्षयित्वको वारितोऽपि तपखिना।
शिष्यः स्थावरतां यातो द्वितीयः फलतामपि ॥११७॥
शेषानिवार्य योन शिष्या भूमिभुजा सह ।
सोऽपश्यत्कनकोदारप्राकारप्रवरं पुरम् ।। ६६८ !!
विज्ञाय स समौ मेषौ स्थितौ द्वारि प्रहारिणौ।
स हत्वा मन्त्रदण्डेन सानुगोऽविशदन्तरम् ॥ ६६९ ॥
रलभित्तिसमुत्कीर्णविराजच्छालभझिके ।
वैडूर्यस्तम्भविन्यस्तततहाटकजालिके ॥ ६७० ॥