पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवत्याम्-भगवत्याः स्तोत्रम् ॥
२६७
वृहत्कथामञ्जरी ।

यजुषो दाक्षिणात्यस्य तनयोऽहं द्विजन्मनः ।
विभूतिवसुराचार्यपदं प्राप्तः शिवागमैः ।। १३३
श्रीपर्वते तपोयोगादृष्टः साक्षादुमापतिः ।
मया प्रणम्य पृष्टश्च फलसिद्धिमुवाच सः ॥ ६३४ ॥
बाणयुद्धे पुरा वृत्ते प्राप्ता द्वारबतीमुखा ।
अनिरुद्धेन सहिता ललनोद्यानभूमिषु ॥ १३९ ॥
उद्यानरसिकं ज्ञात्वा बलभं मत्तकामिनी ।
पातालोपवन सा तं निनाय विधिनिर्मितम् ॥ ६३६ ।।
नीतं तया सुतं ज्ञात्वा प्रद्युमः पुत्रवत्सलः ।
पप्रच्छ कृष्ण भगवन्क्वानिरुद्ध इति मयन् ॥ ६३७॥
कैटभारिस्तमवदत्पातालोपवने स्थितः ।
अनिरुद्धः समं बाणपुञ्या मन्मथलालसः ॥६३८ ॥
पुत्र पातालमार्गोऽस्ति काश्मीरेषु बिलद्वयम् ।
एकं वितस्तासलिले प्रकट भुवि चापरम् ।। ६३९ ॥
तत्राशु प्रकटद्वारि रक्षा काचिद्विधीयताम् ।
केलिसकोऽनिरुद्धोऽसावसुराश्च बहुच्छलाः ॥ ६४० ॥
ततः शौरेर्वचः श्रुत्वा प्रद्युम्नः प्राप्य तं बिलम् ।
पिधाय गिरिशृङ्गेण तुष्टाव व्यक्षवालभाम् ॥ ६४१ ॥
जयति प्रणतामत्यैौलिनीलमणित्विषा ।
सृङ्गपतयेच कलितं देव्याः पादाम्बुजद्वयम् ॥ ६.४२ ॥
जयत्यहर्निशं स्मेरा गौरी चियोमचन्द्रिका ।
विवोध करवचनप्रकाशानन्दसुन्दरी ॥ ६४३ ॥
पादपातो विजयतां देव्यास्ताण्डवडम्बरे ।
यस्य नूपुरपर्यन्ते शोणरत्नायते रविः ॥ ६४४ ॥
मृडान्याः शूलदण्डोऽसौ जयत्यान्दोलितो मुहुः ।
माति यः सर्वदैत्यासृक्पानक्षीवः स्खलन्निव । ६४६ ॥


१. 'लोसो क. 'मय' क. ३. इति' का ४, दण्डपादों का