पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६६
काव्यमाला ।

तयास्ति लोललहीक्षाल्पमानरजोब्रजम् ।
काश्मीरमण्डलं नाम मण्डल सर्वसंपदाम् ॥ ६२० ॥
यस्मिन्नारीकपोलेषु कान्तिकन्दलितोमिछु ।
बिम्बागतः शशी पत्ते सुधागर्भसुखं पुनः ॥ १२१ ॥
तीक्ष्णं तपति नोश्णांशुः करैः कुसुमकोमलैः ।
दष्टेव यत्र लावण्यनवनीतेन निर्मिता ।। ६२२ ॥
सूक्तापितारणतारहारनूपुरमेखलाः ।
नृत्यतीव कवीन्द्राणां यत्र बने सरस्वती ॥ ६२३ ॥
तत्र भूनन्दनामाभूद्भूपतिर्भूषण भुवः ।
कर्पूरगौरो यहाहुरधाच्छेष इव क्षितिम् ॥ १२४ ।।
कदाचिच्छवरीशेषे स द्वादश्यामुपोषितः ।
खझे नयनपीयूषां ददर्श सुरकन्यकाम् ।। ६२५ ॥
प्रबुद्धस्तन्मयध्यानः सोऽभवन्मन्मथातुरः ।
संसारे संसृतिः स्वमो रागस्तेनापि रागिणाम् ॥ २६ ॥
सहसा निर्जिताशेषभुवनेन मनोभुवा ।
स नीतः कामपि दशां शोकदो मन्त्रिणामभूत् ॥ १२७
भ्रात्रेऽथ वसुनन्दाय राज्य सचिवसंमते ।
दत्वा ययौ स तपसे विशोकां शोकनाशिनीम् ॥ ६२८ ।।
क्रमसाराभिषं यत्र पुण्यं विष्णुपदं सरः ।
द्रुहिणोपेन्द्ररुद्राणां यत्र शैलात्मना स्थितिः ॥ ६२९ ॥
यत्र विष्णोर्बलिजये ताराकिङ्किणिकाकुलः ।
पादो गङ्गादुकूलाङ्कः प्रयातः केतुदण्डताम् ॥ ६३० ॥
सं तत्र तीव्रतपसे निनाय नियतः समाः।
एकादशी दशामन्तःस्थायिनी मान्मीं धत् ॥ ६३१॥
कदाचिदर्थ ते देशमायातः शंकरोपमः ।
तपस्वी भूभुजा तेन पृष्टः प्राह निजों कयाम् ॥ ६३२ ।।


होल के. तिष्ठन्ति' क.