पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशाश्वत्याम्-भगवत्याः स्तोत्रम् ।
२६५
बृहत्कथामञ्जरी ।

 
जाते सुते क्षीणशापः स संप्राप्तोऽट्टहासताम् ।
गूढं विप्रगृहे त्यक्त्वा पुत्रं भार्यासखो ययौ ॥ १०७॥
हेमरत्नावलीपूर्ण विन्यस्तं तेन दारकम् ।
सुप्तास्थितो द्विजः प्राय सभार्यो देवदर्शनः ॥ ६०८॥
वहेवराद्धर्मवता तेन दारिद्रयदुःखिना ।
धनेन सह संप्राप्तः पुत्रः श्रीदर्शनाभिधः ॥ ६०९ ॥
कालेन सर्वविद्याभिः कलाभिश्च कृतास्पदः ।
शस्त्रास्त्रयुद्धकुशलो बभूब कृतिनां वरः ॥ ६१० ॥
कदाचिदथ जाहच्या यमुनाशबले जले
त्यक्त्वा तनुं दिवं याते स्वपुण्यैर्देवदर्शने ॥ ६११ ॥
दुःखाद्वहि प्रविष्टायां ब्रामण्यां बन्धुवर्जितः ।
श्रीदर्शनो द्यूतदोषादभूत्कालेन निर्धनः ॥ ६१२ ॥
पांशुधूसराकारैः शून्यस्थण्डिलशायिभिः ।
बाहूपधानैदिग्दस्वैडूंतकारैः समीकृतः ॥ ६१३ ॥
त्यक्ताहारो निरालम्बो सूकः श्रीदर्शनोऽभवत् ।
अनिशं निश्चलध्यानप्राप्तो योगिदशामिय ॥ ६१४ ॥
मर्तुकाम तमालोक्यः सखा मुखरकाभिधः ।
उवाच बत धीरोऽपि विद्वानपि विमुह्यति ॥ ६१५॥
अहो विवेकिनः कोऽपि तवापि हृदयनमः ।
यत्त्वामर्थरजो लुब्धः शरीरं त्यक्तुमुद्यतः ॥ ६१६ ॥
अयमेव सदोपायो भाविकल्याणसंपदाम् ।
त्रिवर्गसाधनं देहं रक्षेदापत्सु यो बुधः ॥ ६१७ ॥
अनेनैव शरीरेण सखे किं नाम नाप्यते ।
सर्वार्थसिद्धिरलानां ऋयविक्रयभूरियम् ॥ ६१८।।
वितस्तेत्यस्ति तटिनी मोक्षश्रीहारवल्लरी ।
रिङ्गत्तरङ्गभ्रूमङ्गैस्तर्जयन्तीव कल्मषम् ॥ ११९ ॥


१. प्राक्पु' क..२.क.