पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६४
काव्यमाला ।

स संगतो मृगदृशा सौदामिन्याख्यया था।
लेभे श्रियं सुविपुलां रतिं च रतिलालसः ।। १९६ ॥
स तां कदाचिदवदत्त्वत्प्रसादान्मम प्रिये ।
संभोगसुभगः कोऽपि हर्षः प्रीणाति मानसम् ॥ ६९६ ॥
संपूर्णसर्वसंकल्प स्वतः पुत्रं सुलोचने ।
प्राप्तुमिच्छामि पुण्यानां संतोषैकफलं फलम् ।। ५९७ ॥
इति भर्तुर्वचः श्रुत्वा सावदन्मनुवादिनी ।
राग मूर्तमिवाधाय. बिम्बाधररुचा पुरः ॥ ५९८ ।।
अहं पृथूदराख्यस्य तमालवनवासिनः।
सुता सौदामिनी नाम यक्षेन्द्रस्य धनश्रियः ।। ५९९ ॥
अहहासाभिधानस्त्वं कान्तो यक्षकुमारकः !
वृतः पुरा मया हर्षनिर्जरः पितुराज्ञया ॥ ६००
अन्नान्तरे धनपतेविधाय सदृशं वपुः ।
प्रात्रा दीप्तशिखाख्येन नलकूवररूपिणा ।। ६०१ ।।
लीलया रममाणं त्वां सोऽपश्यनलकूबरः।
स पितुः सदृशं कोपात्त्वां शशाप नभःस्थितः ॥ ६०२ ॥
मयों भविष्यसीत्याशु प्रार्थितश्चाभ्यधात्पुनः ।
दुर्वृत्तो मम रूपेण दर्पमूढो बैलापरः ॥ १०३ ॥
सौदामिन्यां यदा त वं भ्रातरं जनयिष्यसि ।।
गर्भदीप्तशिखामिख्यं स्वं रूपं लप्स्यसे तदा ॥ ६०४ ॥
इति तद्वचसा क्षिप्रं त्वमिमां तनुमास्थितः
अहं चैतत्सखीवाक्याज्ज्ञात्वा त्वं शरणागता ।। ६.५ ॥
भविष्यत्यचिरादेव पुत्रः शापक्षयाय ते ।
इत्युक्त्वा दीर्घकालेन प्रौढा सुतमसूत सा ॥ ६०६ ॥


पर सकळ फलम् ख.

वा मे दशे पता कर २. विवर्णजः क...३.था क