पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-भगवत्याः स्तोत्रम् ।
२६३
बृहत्कथामारी।

(विन्ध्याटवीमथासाद्य दीर्थी वेणीमिवावनेः ।
तमालतालहिन्तालविशालसरलाकुलाम्) | ९८३ ॥
पथि सुप्तोत्थिताः प्रातर्ददृशुस्ते पटावृतम् ।
शयानमेकं पथिक दीर्घाध्वश्रमपीडितम् ॥ ५८४ ॥
ईपदंशुकमुद्धाट्य तं विचित्रकथं ततः ।
अपश्यन्नमृताखादतत्समागमनिवृताः ॥ ५८५ ॥
निवेद्य निजवृत्तान्त स पृष्टस्तैरुवाच तान् ।
अप्यहं नागशापेन जवात्वापि निपातितः ॥ ५८६ ॥
ततोऽपश्य पुरवरे मणिकाञ्चनमन्दिरे ।
वधूभ्यां सहितं दिव्यं पुरुषं रत्नभूषितम् ॥ ९८७ ।।
दुर्लभार्थिजने तत्र तेनाहं पूजितो भृशम् ।
मवृत्तान्तं समाकर्ण्य सान्त्वितः मानभोजनैः ॥ ५८८ ॥
तद्वधूवचसा ज्ञात्वा तमहं यक्षनायकम् ।
अपृच्छं शास्त्रनयनो वियोगव्याधिभेषजम् ॥ ९८९ ॥
स मामुवाच वातूलतूलावर्तनिवर्तिनाम् ।
नृणां भवे भवन्त्येव वत्स दिष्टया समागमः ।। ५९० ॥
अयमादेहपर्यन्तः कोऽपि व्याधिरभेषजः ।
वियोगसारे संसारे प्रेम प्रियजनेषु यत् ॥ ५९१ ।।
असिन्वाराङ्गनाभभिरिङ्गभूभङ्गभङ्गुरे ।
कः संयोगवियोगाभ्यां नोन्मजति निमज्जति ॥ ५९२ ॥
यक्षेणापि मया पूर्व वल्स मानुषजन्मनि ।
सुखदुःखपरावृत्तिरनुभूता सुदुःसहा ॥ ५९३ ।।
पवित्रधननामाभूत्रिगर्तविषये द्विजः ।
स निर्धनो वनं गत्वा भेजे भद्रेण यक्षिणीम् ।। ५९४ ॥


१. एसत्कोष्ठान्तर्गतपाठः क-पुस्तके त्रुद्धितः, 'स्म्य' क. ३. 'दृष्टमष्टाः स.