पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
काव्यमाला ।

ततः श्वभ्रे निपतितं कृत्वात्मानं महामृगन् ।
विनीतमतिरर्थिभ्यस्तेभ्यो भोजनतामगात् ॥ ५७१ ॥
राजपुत्रेण भुक्ते वै मृगे तस्मिन्नशङ्कितम् ।
वह्निं निपेततुस्तुल्यं विनीतमतिवल्लभे ॥ ५७२ ॥
तज्ज्ञात्वा राजपुत्रोऽपि सामात्योऽग्निं समाविशत् ।
सोमशूरस्तु योगेन तनुमुत्स्रष्टुमुद्ययौ ॥ ५७३ ॥
ततो मायाकृतं सर्वमित्युक्त्वा पाकशासनः ।
पीयूषेणास्थिशेषांस्तान्समस्तान्समजीवयत् ॥ ५७४ ॥
विनीतमतिरासाद्य जीवं बोधमथो ययौ ।
दिव्यं तपोवनं श्रीमान्सर्वसत्त्वहितोद्यतः ॥ ५७५ ॥
इत्येवं संगताः पूर्वं पञ्चतामपि ते गताः ।
किं चित्रं भविता व्यक्तं जीवतां वः समागमः ॥ ५७६ ॥
इति विनीतमत्याख्यायिका ॥ १७ ॥
जरत्पुलिन्दतापस्याः श्रुत्वेत्यहमवाप्तधीः ।
नागशापकृतां मूर्छां शनैः किंचिदिवात्यजम् ॥ ५७७ ॥
ततो दुर्गां प्रणम्याहं प्रस्थितो दक्षिणां दिशम् ।
संप्राप्तः शबरैरेतैः समरे संप्रहारिभिः ॥ ५७८ ॥
क्षणेन निहतानेकपुलिन्दक्षतविग्रहः ।
त्वत्पादमूलमानीतस्तैरहं सुकृतैरिव ॥ ५७९ ॥
मृगाङ्कदत्तः श्रुत्वेति हृष्टः सचिवसंगमात् ।
गन्तुमुज्जयिनीं चक्रे प्रस्थानाभिमुखं मनः ॥ ५८० ॥
त्वया दुर्गपिशाचो मे दातव्योऽस्मिन्समीहिते ।
चण्डालराजः साहाय्ये समामन्त्र्येति तत्पुरम् ॥ ५८१ ॥
मायाबटुं सहामायां ययावुज्जयिनीं प्रति ।
चतुर्भिः सचिवैः सार्धं स शशाङ्कवतीं स्मरन् ॥ ५८२ ॥


१. 'पूरा' क. २. 'ये त्वमेव चिते गमा' क. ३. 'द्भिस्तैः स' क. ४. 'सर' क.