पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कवत्याम्-विनीतमत्याख्यायिका ।]
२६१
बृहत्कथामञ्जरी।

पारे समुद्रक्षेत्रस्य राजर्षेः शिवशासनात् ।
तपोवनतरङ्गिण्याः पारे मृत्युर्न बाधते ॥ ५५९ ॥
तदेहि वत्स तं देशमित्युक्त्वा तं निनाय सः ।
तत्र स्थितोऽसौ कालस्य दुर्लङ्घ्यो मनसाप्यभूत् ॥ ५६० ॥
याते वर्षसहस्रेऽथ कृतान्तो यत्नमास्थितः ।
विधाय मायाललनामाचकर्ष तमुत्सुकम् ॥ ५६१ ॥
तरङ्गिण्याः परं पारं प्राप्तं तं काममोहितम् ।
आकृष्य कालः पाशेन निनाय यममन्दिरम् ॥ ५६२ ॥
पृष्टोऽवदच्चित्रगुप्तो धर्मराजेन तद्गतिम् ।
भक्तो ममायमित्यन्तः कलयंल्लेखिनीकरः ॥ ५६३ ॥
नरके नास्ति संख्यास्य दिनमेकं द्विजार्चनात् ।
स्वर्गभोगस्तु तत्पूर्वं स्वर्गं यात्वेष दुर्मतिः ॥ ५६४ ॥
इति तद्वचसा नाकं प्रयातस्तेन शिक्षितः ।
तत्र लिङ्गार्चनपरस्तस्थौ क्षपितकल्मषः ॥ ५६५ ॥
दग्धे शिवार्चनात्तस्य पातके त्रिदिवस्थितेः ।
परिज्ञानसमाधानादभवो विभवोऽभवत् ॥ ५६६ ॥
इति प्रज्ञावता तेन चौरेण कुशलस्थितिः ।
प्राप्ता प्रज्ञामृते पुंसां बन्धुरन्यो न विद्यते ॥ ५६७ ॥
इति प्रज्ञापारमिता ॥ १६ ॥
इति पारमिताः श्रुत्वा विनीतमतिना स्वयम् ।
कथिताः सोमशूरोऽभून्मुनिस्तस्मिंस्तपोवने ॥ ५६८ ॥
अत्रान्तरे समाभ्यायाद्विजितो भूमिपात्मजः ।
तेनेन्दुकलशाख्येन विनीतमतिकाननम् ॥ ५६९ ॥
स तत्र क्षुत्परिश्रान्तः सामात्यो निःसहोऽभवत् ।
वनं च निष्फलच्छायं तदभूदिन्द्रमायया ॥ ५७० ॥


१. 'द्द्विजः' क.