पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
काव्यमाला ।

रक्षितो बोधिसत्वेन तेनैव च विबोधितः
असत्यभावनामात्रं मूढोऽस्मीति विवेद सः ॥ ५४६ ॥
यदेवानन्यमनसां ध्यानं मुग्धाननाम्बुजे ।
तत्स्वधाम्नि यदि स्यात्तु भवेऽस्मिन्कः पुनर्भवेत् ॥ ५४७ ॥
ततः स शासनं पुण्यमर्हतां दर्शने स्थितः ।
विरतेच्छाभयद्वेषो भेजे संसारशातनम् ॥ ५४८ ॥
स कदाचिन्नरपतेस्तामेवेन्दुयशःसुताम् ।
दृष्ट्वा विरक्तस्तां मायां स्मृत्वा साश्रुमुखोऽभवत् ॥ ५४९ ॥
ततः पृष्टो नरेन्द्रेण तस्मै सर्वं निवेद्य सः ।
जगाम काननं ध्याननिवृत्तः सह भूभुजा ॥ ५५० ॥
इत्येवं ध्यानयोगेन भावितं दृश्यते पुरः ।
सर्वेन्द्रियसमापत्तिलीनानां ज्ञानसंचयैः ॥ ५५१ ॥
इति ध्यानपारमिता ॥ १५ ॥
सिंहलद्वीपवसतिश्चौरोऽभूत्सिंहविक्रमः ।
स कालेन जरां प्राप्य पपात नरकं निजम् ॥ ५५२ ॥
न शर्वविष्णुशक्राणां मद्भक्तिर्गणनास्पदम् ।
विचिन्त्येति सदा धीमांश्चित्रगुप्तमपूजयत् ॥ ५५३ ॥
हेलाकमलसंचारचीत्कारकृतलेखया
जगन्ति यैर्निवर्त्यन्ते कायस्थांस्तान्नमेन्न कः ॥ ५५४ ॥
विज्ञाय दृढभक्तं तं पुनर्ज्ञातुं तदाशयम् ।
तद्गृहं ब्राह्मणो भूत्वा चित्रगुप्तस्ततोऽविशत् ॥ ५५५ ॥
स तत्र भोजितस्तेन प्रीतः स्वस्त्ययनोन्मुखः ।
प्रार्थितो विप्रतुष्टो मे चित्रगुप्तो भवत्विति ॥ ५५६ ॥
ततः परीक्ष्य बहुशो भार्यादानेऽप्यविक्रियम् ।
तमायुष्काममवदच्चित्रगुप्तः स्वरूपधृक् ॥ ५५७ ॥
तुष्टोऽहं तव कल्याणां क्षीणमायुस्तु दुर्लभम्
तथापि युक्तिमाश्रित्य करिष्यामि हितं तव ॥ ५५८ ॥