पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left९. शशाङ्कवत्याम्-ध्यानपारमिता ।]
२५९
बृहत्कथामञ्जरी

ततो यदृच्छया यातो भगवान्वरदो गुहः ।
तं दृष्ट्वा बालकृपया चकार व्योमगामिनम् ॥ ५३४ ॥
इति सोत्साहधैर्याणां स्वयं सिद्धिः प्रजायते ।
उत्साहो धर्मवीर्याणां मूलं सत्वमहातरोः ॥ ५३५ ॥
इति धैर्यपारमिता ॥ १४ ॥
अभून्मलयमालीति वणिक्कर्णाटदेशजः ।
सुतां कदाचित्सोऽपश्यदिन्दुकेसरभूपतेः ॥ ५३६ ॥
अमन्दानन्दनिष्पन्दसुन्दरेन्दुनिभाननाम् ।
स तामिन्दुयशां नाम दृष्ट्वा भूत्स्मरपीडितः ॥ ५३७ ॥
दुर्लभेयमिति ज्ञात्वा चित्रकारेण सुन्दरीम् ।
कृत्वा तु फलके तुल्यां स तो नित्यमपूजयत् ॥ ५३८ ॥
स तद्ध्यानपरः सर्ववृत्तिनिर्वाणनिश्चलः ।
अवाप्तः कामपि भुवं तस्थौ रागपरायणः ॥ ५३९ ॥
तां ततो भावनाक्रान्तो वासनालिखितां पुरः।
अपश्यत्परिसर्पन्तीं लतां घाताकुलामिव ॥ ५४० ॥
चन्द्रोदये नवोद्याने तां निधाय जगाम सः ।
तदर्थं पुष्पमाहर्तुं कमलोत्तंसभूषणम् ॥ ५४१ ॥
ततो यदृच्छया यातः संगतो विनयद्युतिः ।
अदृश्यो वीक्ष्य तं मूढ सर्पं चित्रपटेऽलिखत् ॥ ५४२ ॥
स च पुष्पाण्यथादाय दृष्ट्वा सर्पं प्रियान्तिके ।
तत्संयुक्तां प्रदध्यौ तां पुरो लीलाभिसारिणीम् ॥ ५४३ ॥
निहतामथ सर्पेण पतितावयवां भुवि ।
विलोक्य निश्चलध्यानः स शुशोच सुलोचनाम् ॥ ५४४ ॥
हा प्रिये हा मनःसिन्धुचन्द्रिके क्व गतासि मे ।
विलप्येति स वृक्षाग्रादुत्ससर्ज निजां तनुम् ॥ ५४५ ॥


१-२. 'वी' ख. ३. 'ना' ख. ४. 'सु' ख.