पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
काव्यमाला ।

सर्वे कङ्कणकेयूरकुण्डलप्रतिमा गुणाः ।
शीलं त्वकृत्रिमालोके लावण्यमिव भूषणम् ॥ ५२३ ॥
इत्येवं शुकराजेन स शीले विनिवेशितः ।
बभूव मनसा ध्यात्वा त्यक्तमन्मथविक्रियः ॥ ५२४ ॥
इति शीलपारमिता ॥ १२ ॥
अभूच्छुभनयो नाम मुनिः केदारकन्दरे ।
चौरास्तदाश्रमोपान्ते नालभन्त हृतं धनम् ॥ ५२५ ॥
दाम्भिकोऽयं वृथा मौनी चौराणामपि चौर्यकृत् ।
उक्त्वेति चक्रुस्ते कोपात्तं हीनचरणेक्षणम् ॥ ५२६ ॥
दस्युभिर्निगृहीतं तं नृपतिः शेखरद्युतिः ।
शिष्यः प्राप्तः प्रणामाय ददर्श पतितं क्षितौ ॥ ५२७ ॥
चारचक्षुस्ततश्चौरांस्तानानाय्य स भूपतिः ।
दिदेश तद्वधं क्रुद्धस्तथामन्यत नो मुनिः ॥ ५२८ ॥
यतात्मना ते च तेन रक्षिता राजशासनात् ।
चौरा ययुः स च प्राप सुनिः सिद्धिमनुत्तमाम् ॥ ५२९ ॥
पुण्यतीर्थमनायासं क्रतुरद्रव्यडम्बरः ।
अशोषणं शरीरस्य क्षमा नाम परं तमः ॥ ५३० ॥
क्षेत्रं त एव पुण्यस्य भाजनं यशसां च ते
प्ररूढा हृदये येषां क्षान्तिवल्ली महाफला ॥ ५३१ ॥
इति शान्तिपारमिता ॥ १३ ॥
शिशुर्मालाधरो नाम ब्राह्मणो दक्षिणापथे।
ददर्श नभसा यान्तं जवात्सिद्धकुमारकम् ॥ ५३२ ॥
तं दृष्ट्वा तालपक्षाभ्यां कृत्वात्मानं परिष्कृतम् ।
आकाशे गमनाभ्यासं व्यधादुत्साहनिर्भरः ॥ ५३३ ॥


१. 'भ्रुवं' ख. २. 'प्राणान्समादाय' ख. ३. 'साद्य महीपतिः' ख. ४. 'यत्नात्क्षमावता तेन' ख. ५. 'व्रतः' ख.