पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कवत्याम्-शीलपारमिता ।]
२५७
बृहत्कथामञ्जरी।

स कदाचिज्जनपदं दुर्भिक्षेण निपीडितम् ।
संतार्य त्यागसत्त्वाभ्यां व्रतैः शक्रमतोषयत् ॥ ५१२ ॥
तद्वरात्कल्पवृक्षोऽभूत्सर्वाशापूरणस्तदा ।
तत्प्रसादाद्दिवं सर्वे कुरुक्षेत्रनिवासिनः ॥ ५१३ ॥
सशरीरा ययुः सत्यं सिद्धये स हि पादपः ।
इत्येवं दानशीलस्य चिरं कल्पतरुस्थितेः ।
तस्य कीर्तिः पताकेव विभात्येषा त्रिमार्गगा ॥ ५१४ ॥
तापपीयूषजलदस्तिमिरध्वंसभास्करः ।
दानं हि नाम संसारे निदानं शुभसंपदाम् ॥ ५१५ ॥
इति दानपारमिता ॥ ११ ॥
विन्ध्ये शुकसहस्रान्तः शुको हेमप्रभोऽभवत् ।
तस्य चारुमतिर्नाम प्रतीहारोऽभवच्छुकः ॥ ५१६ ॥
कदाचित्तस्य निहता जालकैर्वल्लभा शुकी ।
स तद्वियोगसंतप्तः प्रतीहारः कृशोऽभवत् ॥ ५१७ ॥
तं वीक्ष्य विरहोन्मत्तं शीलवाञ्शुकभूपतिः ।
तस्यामलं सरो गत्वा प्रतिबिम्बमदर्शयत् ॥ ५१८ ॥
आत्मनः प्रतिबिम्बं च तस्य चान्तर्जले स्थित्तम् ।
निर्दिश्योवाच तं पश्य प्रियामन्येन संगताम् ॥ ५१९ ॥
एता मुहूर्तशालिन्यः क्रूराः संध्या इव स्त्रियः ।
दर्शयन्ति तमः पश्चातालयावर्तभीषणम् ॥ ५२० ॥
अहो नु सरलः पन्थाः कोऽप्ययं जडचेतसाम् ।
यद्गताननुगच्छन्ति मत्स्यपुच्छग्रहाः स्त्रियः ॥ ५२१ ॥
योषिद्भिप्रिलब्धानां शोचतां जनसंसदि ।
शीलं जनभयेनेव दूरं यात्ययतात्मनाम् ॥ ५२२ ॥


१. 'स तपोऽभ्याससत्त्वा' ख. २. 'दिवं तदाज्ञया स' ख. ३. "सोष्णपी' ख. ४. 'गताः' ख. ५. 'लज्जाभ' ख.