पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
काव्यमाला ।

पाञ्चालेष्वभवद्विप्रो देवभूतिरिति श्रुतः ।
भोगदत्ताभिधानस्य भार्याभूद्धर्मचारिणी ॥ ५०० ॥
पत्यौ स्नानाय निर्याते शाकावचयनिर्गता ।
सापश्यत्स्वरमारामे रजकेन निवेशितम् ॥ ५०१ ॥
स तया वारितो यष्ट्या भीतः श्वभ्र इवापतत् ।
पततः स्फुटिता तस्य सशब्दा जानुनालिका ॥ ५०२ ॥
रजकोऽपि तमालोक्य खरं खजीकृतं तया ।
तां मुष्टिभिर्जघानाशु लगुडैश्च घनेन सः ॥ ५०३ ॥
च्युतो गाढप्रहारेण गर्भस्तस्याः सशोणितः ।
द्विजोऽप्यागत्य तद्दृष्ट्वा नगराधिपति ययौ ॥ ५०४ ॥
जल्पं पुराधिनाथोऽसौ श्रुत्वा रजकविप्रयोः ।
न्यायं विचार्य सुचिरं ततो वक्तुं प्रचक्रमे ॥ ५०५ ॥
उभयोरयमन्यायो ब्राह्मण्या रजकस्य च ।
खरो विशमितो यच्च गर्भो यत्पातितोऽमुना ॥ ५०६ ॥
वस्त्रभारं वहत्येप खरस्वास्थ्यावधिं द्विजः ।
आधत्तां रजको गर्भं ब्राह्मण्यां यत्नमास्थितः ॥ ५०७ ॥
इति न्यायविदो वाक्यं श्रुत्वा पुरपतेर्द्विजः ।
सभार्यो विषपानेन बभूव सहसा व्यसुः ॥ ५०८ ॥
स च राज्ञः पुरपतेर्निगृहीतो विनष्टधीः ।
इत्येवं दुर्विनीतानां श्वभ्रपातः समे पथि ॥ ५०९ ॥
तस्माद्विचारमास्थाय शृणु पारमितां कथाम् ।
यया भवत्यमलधीर्न्यस्तसंसारवासनः ॥ ५१० ॥
मलयप्रभनामाभूत्कुरुक्षेत्रे महीपतिः ।
श्रीमानिन्दुप्रभो नाम त्यागरत्नाकरः सुतः ॥ ५११ ॥


१. 'वावकोऽपि' ख, २, 'बलासुराधिनाथो' ख, ३. 'ऽनया त्रासितो यद्गर्भोऽत्याः पातितोऽमुना' ख, ४. 'षा खरस्वस्थो भवेद्द्विजः' ख, ५. 'चाराणां क्व नु यानं समे पथि' ख, ६. 'ताह्वयाम्' ख, ७.'व्युर्ष्टसं' ख, ८.'पुरा मलयनामाभू' ख. ९. 'अवनीन्द्रप्रभो मा' ख. १०. 'शु' ख.