पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-दानपारमिता ।]
२५५
बृहत्कथामञ्जरी ।

राजन्युष्मत्कृपाणेन हृता श्रीः शत्रुणा मम ।
श्रुत्वेति करुणासिन्धुस्तस्मै राज्यं निजं ददौ ॥ ४८७ ॥
त्यक्तराज्यः प्रविश्याथ सभार्यो विकटाटवीम् ।
स तपःपुण्यपीयूषैश्चक्रे नन्दनसंनिभम् ॥ ४८८ ॥
सोमश्रमाभिधं तत्र पुरुष मर्तुमुद्यतम् ।
निवार्य दुःखात्सोऽपृच्छत्स च पृष्टस्तम्भ्यधात् ॥ ४८९ ॥
पिता मे नागशूराख्यो जाते मयि पुराशृणोत् ।
चौरस्ते तनयो भावी न चिरादिति योगिनः॥ ४९० ॥
ततो विद्याविदं चक्रे स मां यत्नेन वत्सलः ।
विद्या ह्यकृत्रिमो दीपः संमोहतिमिरे नृणाम् ॥ ४९१ ॥
ततोऽहमभवं चौरस्तद्वीपां पतितो वशे ।
ललाटे कर्मटे केन लिखितं को निवर्तयेत् ॥ ४९२ ॥
ज्ञातकालेन राज्ञा हि निबद्धोऽहं च तत्क्षणात् ।
दैवाद्विभ्रष्टनागेन्द्रकल्लोलेन विमोचितः ॥ ४९३ ॥
गजकोलाहलव्यग्रं तीर्णोऽहं जनमण्डले ।
अश्रौषमेत्य पितरौ मच्छोकात्त्यक्तजीवितौ ॥ १९४ ॥
ततोऽहमपि तद्दुःखात्प्राप्तो मर्तुमिदं वनम् ।
दृष्टः कारुण्यसंपूर्णधिया देव्या वनश्रिया ॥ ४९५ ॥
विनीतमतिसंस्थानपुण्योऽस्मिन्पुत्र कानने ।
क्षीणं ते पातकं गच्छ तसात्पारमितां शृणु ॥ ४९६ ॥
इति तद्वचनं श्रुत्वा मया दृष्टो भवान्पुरः ।
भगवन्ब्रूहि मे पुण्यं सम्यक्पारमितां कथाम् ॥ ४९७ ॥
इत्याकर्ण्य कृपासिन्धुर्विनीतमतिराश्रमम् ।
नीत्वा तमवदज्ज्ञानलोचनालोकिताखिलः ॥ ४९८ ॥
विचार एव जन्तूनां सदा सन्मार्गदर्शकः ।
स च स्फुरति तत्त्वेन नहि मायाकृतात्मनाम् ॥ ४९९ ॥


'नृपः' ख. २. 'पर्पटे' ख. ३. 'कोलाहलविभो' ख.