पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
काव्यमाला ।

दत्तं प्राक्सिकतापात्रं द्यूतकेलिजुषा त्वया ।
ब्राह्मणाय क्षुधार्ताय तस्याहं फलसंचयः ॥ ४७५ ॥
दशकोटीः सुवर्णस्य दत्वाभूद्गतकिल्बिषः ।
इति श्रुत्वा प्रबुद्धस्तु गुरवे स निवेदयत् ॥ ४७६ ॥
तद्वाक्यात्काञ्चनं दत्त्वा पुनः स्वमविधिं व्यथात् ।
भूयस्तदेव च स्वप्ने दुदर्शोत्कम्पिताशयः ॥ ४७७ ॥
हते विप्रस्य हेमांशे चौरैस्तदफलं गतम् ।
दशकोटीः पुनर्दत्त्वा हेमोऽभूद्गतकल्मषः ॥ ४७८ ॥
ततो बुद्धकथाजातं भिक्षुः स्वैरं तमभ्यधात् ।
नरेन्द्र दानं वीराणामुत्साहः सिद्धये सताम् ॥ ४७९ ॥
पुरा वराहरूपस्थो निधिसत्त्वः कृपानिधिः ।
धर्माय सिंहरूपाय स्वं वपुर्भोजनं ददौ ॥ ४६० ॥
हेलोत्तालानिलालोलजलकल्लोलचञ्चलैः ।
प्राणैः पुण्यवतामेव प्रणयिप्राणपूरणम् ॥ ४८१ ॥
इत्यादि बुद्धसंबद्धां कथामाकर्ण्य भूपतिः ।
स बभूवार्थिसार्थानां जङ्गमः कल्पपादपाः ॥ ४८२ ॥
अथाभ्येत्य ययाचे तं विप्रः कोऽप्यङ्गुलीयकम् ।
रक्षामि राक्षसाविष्टं पुत्रमित्यनिवारितः ॥ ४८३ ॥
रक्षारलाङ्गुलीयं तद्ददौ तस्मै स सत्त्वधीः ।
पूर्णरत्नार्थिनां सत्यं सन्ति चिन्तामणिश्रियः ॥ ४८४ ॥
राजपुत्रस्ततोऽभ्येत्य विनीतमतिमभ्यधात् ।
सगोत्रशात्रवाञ्जेतुं खड्गं साश्वमयाचत ॥ ४८५ ॥
तद्दत्तेनाथ खड्गेन राज्यं शत्रोर्जहार सः ।
हृतराज्यपरोऽभ्येत्य विनीतमतिमभ्यधात् ॥ ४८६ ॥


१. 'निकृतिमाप्स्यति' ख. २. बोधिसत्त्वः' क. ३. 'बौ' ख. ४ 'नाम नृणां चिन्तामणिश्च यः' ख. ५. 'तमिन्दुकलशाभिद्यः' ख..