पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-दानपारमिता ।]
२५३
बृहत्कथामञ्जरी ।

अत्रान्तरे नरपतेः सुता विद्यासु कोविदा ।
दर्पदुदयवत्याख्या विजिग्ये वादिनां गणम् ॥ ४६२ ॥
जयेद्यो मां विवादेन स से पाणिं गृहीष्यति ।
इति कृत्वा प्रतिज्ञां सा वादिवृन्दं समाह्वयत् ॥ ४६३ ॥
ततः पित्रा समादिष्टो विनीतमतिरेत्य तान् ।
जित्वा दीर्धेण वादेन प्राप दत्तां महीभुजा ॥ ४६४ ॥
स तां बालमृगीलोलललितायतलोचनाम् ।
प्राप्य स्मरनरेन्द्रस्य यौवराज्यं समाप्तवान् ॥ ४६५ ॥
कदाचिदथ तं द्यूतविनोदव्यग्रमानसम् ।
ययाचे भोजनं विप्रः स च दासं तदादिशत् ॥ ४६६ ॥
दासोऽपि सिकतापात्रं तस्मै वस्त्रावृतं ददौ ।
अमन्दनिम्बकटुकदुष्टा हि नृपचेटकाः ॥ ४६७ ॥
अथ कालेन तं राजा धृत्वा राज्ये सुतापितम् ।
प्रज्वाल्य गुग्गुलुं मूर्ध्नि वृद्धो वृद्धां दशां ययौ ॥ ४६८ ॥
विनीतमतिरासाद्य प्राज्यं राज्यं प्रजाप्रियः ।
विदधे धर्मविधिना विबुधाराधनव्रतम् ॥ ४६९ ॥
अत्रान्तरे समभ्यायाद्वादिद्विरदकेशरी ।
रत्नचन्द्रमतिर्नाम भिक्षुरक्षणबौद्धधीः ॥ ४७० ॥
अष्टाभिर्दिवसैस्तेन वादिना स जितो नृपः ।
जग्राह तत्पणे बद्धं सौबद्धं धर्मशासनम् ॥ ४७१ ॥
स विहारं प्रविदधे हारपुण्यं फलं श्रियः ।
लोकनाथसमायुक्तं निक्षुसंघशताचितम् ॥ ४७२ ॥
ततः परोपदेशार्थी रत्नचन्द्रमतेर्गिरा ।
स चकार धराधीशो विधिना स्वप्नसाधनम् ॥ ४७३ ॥
ज्वलितं सिकताकूटं सोऽपश्यत्प्रेतभूमिगः ।
भुङ्क्ष्वेत्यभिहितः स्वप्ने विकटैर्दण्डपाणिभिः ॥ ४७४ ॥


१.'सदा जयेत्' ख. २. 'मिवाप्तवा' खा.