पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२
काव्यमाला ।

स कदाचिन्निजयशःशुभचन्द्रकरोज्ज्वले ।
शुश्राव विचरन्धन्वी निशीथे रुदितध्वनिम् ॥ ४४९ ॥
गत्वापश्यत्तरुतले कन्यां कमललोचनाम् ।
विषण्णां कुञ्जरक्षोभा नलिनीनामिव श्रियम् ॥ ४५० ।।
सा दुःखकारणं पृष्टा तेन प्राह सुमध्यमा ।
दन्तनातनवज्योत्स्वा रचितानेकचन्द्रिका ॥ ४५१ ॥
पिता से गन्धमालीति नागपाशेन बासुकेः ।
कालजिह्वाख्ययक्षस्य जिलमारिकलां गतः ॥ ४५२ ।।
माता तस्य महावीयाँ विद्युजिहः प्रियासखः ।
यक्षो यक्षपतेः शापात्प्रयातश्चक्रवाकताम् ॥ ४९३ ॥
स्नेहाद्भातुः सरोमध्ये स्थितस्य विहगाकृते ।
समीपे बसतिं चक्रे कालजिह्वो मदोत्कटः !! ४६४ ॥
(तंत्र स्थितस्य पुष्पाणि मदाशायरियन्त्रितः ।
स मत्पिता गन्धमाली भारवाहां प्रयच्छति) ।। ४५६ ॥
तदुःखानिगरिजा देवी नियत सेविता मया।
यक्षे विनीतमलिना जिते शापान्तमभ्यधात् ।। ४५६ ॥.
तदथै खड्गरलं. मे वरावं च ददौ सती ।
तत्प्राप्त्यर्थ मग्राहूतः करुणाक्रन्दमानया ॥ ४५७ ॥
इति श्रुत्वा तदादाय खारनं सवाजिकम् ।
तदादिष्टेन मार्गेण तं यक्ष सोऽजयद्रणे ॥ ४५८ ।।
यक्षो विनीतमतिना वधयोग्योऽपि रक्षितः ।
रत्नाङ्गुलीयकं तस्मै ददाविति निबर्हणम् ।। ४१९ ॥
ततो विमुक्तशापेन दत्ता नागनता सुताम् ।
लब्ध्वा विजयवत्याख्यां स ययौ निज़मन्दिरम् ॥ ४६० ॥
प्रातः कृतविवाहोऽथ राज्ञा पित्रा च स खयम् ।
नागकन्यासखो भेजे विनीतमतिरूत्सुकः ।। ४६१ ॥


एतरकोष्ठान्तर्गत माला -पुस्तके त्रुटितः २ मिादिह ख. ३. श्रदीमवत् ख.