पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशावत्याम्-दानपारमिता
२५१
बृहत्कथामञ्जरी ।

सोऽब्रवीनागशापेन तदाहं देव मूर्छितः ।
विन्ध्याटव्यां परिश्रान्तः संप्राप्तो विन्ध्यवासिनीम् ॥ ४३६ ।।
ततो नरशिर केशशकृन्महिषसंकुलम् ।
द्वारालम्बिमहावीरमुण्डमण्डलमण्डितम् ।। ४३७ ॥
आक्रीडमिव कालस्य कगृध्रवगाकुलम् ।
क्षणं संभ्याम्बुदमिव प्रत्यग्ररुधिरारुणम् !! ४३८ ।।
बद्धैः करालमायूरशरीरैः शबराहृतैः ।
उत्पक्ष्मभिः कालराव्या भ्रूभङ्गैरिव भीषणैः ॥ ४३९ ।।
शुभ्रास्थिकूटसंघट्टैः स्पष्टीकृतदिगष्टकम् !
मारीघट्टसमुत्सृष्टैरट्टहासैरिवावृतम् ॥ ४४० ।।
दुर्गायतनमासाद्य खशिरश्छेत्तुमुद्यतम् ।
ददर्श मां तु विक्रान्तं वृद्धा कापि तपस्विनी ।। ४४१ ॥
विराजिता भस्मशुने कण्ठे स्फटिकमालया।
स्वधियेवाश्रिता साक्षात्क्षीणरामकलङ्कया ।। ४४२ ॥
सा मां निवार्य कृपया श्रुत्वा दीर्घा च मत्कथान् ।
उवाच मा शुचः पुत्र ध्रुवं शुभमवाप्स्यसि ॥ ४४३ ॥
न विद्या न कुलं नः श्रीधैर्यहीनस्य शोभते ।
करिणो रणभन्मस्य मदाङ्क इव डिण्डिभः ।। १४४ ॥
भ्रमराणामिवादभ्रे भ्रमतां भवकानने ।
शरीरिणामवश्यं हि भवत्येव समागमः ॥ ४४५ ॥
अभूदुदयतुङ्गाख्यः पञ्चालेषु महीपतिः।
यशश्चन्द्रच्छलाद्यस्य यातमेकालपत्रताम् ॥ ४४६ ॥
तस्याभवत्प्रतीहारः श्रीरक्षापरिखाचलः ।
कमलाक्षो मतिमतां धुर्यश्च नयविश्रुतः ॥ ४४७ ।।
विनीतमतिरित्यासीत्पुत्रस्तस्य गुणोचितः ।
वंशमुक्तामणेर्यस्य कान्तिकान्ता विभूषणम् ॥ ४४८ ॥


१. कृत्तशिरः क्त्वोमयकृ' स. २,'द्धा ख.३. 'या' ख.