पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
काव्यमाला ।

इति श्रुतधिवाक्येन स मायाबटुभूभुजा ।
प्रतीहारोऽभ्यनुज्ञातस्तमाहर्तुं गृहं ययौ ॥ ४२४ ।।
स चौरो न मयाद्यापि हतः किं मन्दबुद्धिना ।
इति ध्यात्वा गृहेऽपश्यन्न चौरं न च बर्हिणम् ।। ४२५ ॥
गृहात्प्रतिनिवृत्यासौ प्राह मायाबहोः पुरः ।
गतो बर्हीति तच्छ्रुत्वा जहास श्रुतधीर्भृशम् ।। ४२६ ॥
वर्ही चौरेण वा नीतश्चौरो वा बर्हिणा हृतः ।
अहो त्वया न विज्ञातं चौरबर्हिविचेष्टितम् ॥ ४२७ ।।
इत्युक्त्वा श्रुतधिः सर्वां तत्कथां कौतुकस्पृशे ।
निवेद्य शबरेन्द्राय दासीं कृत्ताङ्गुलीं च ताम् ॥ ४२८ ॥
नमः स्त्रियः इति प्राह निन्दन्मञ्जुमतीं मुहुः ।
तत्त्वं मायावटुर्ज्ञात्वा प्रतीहारं जवान तम् ॥ ४२९ ॥
वधान्मृगाङ्कदत्तेन स्त्री न वध्येति रक्षिता।
ययौ मञ्जमती क्वापि द्रोहः सत्यं विपत्फलम् ॥ ४३० ॥
कदाचिदथ यातेषु वासरेषु व्यजिज्ञपन् ।
शबराः शबराधीशं वीरः प्राप्तो महानिति ॥ ४३१ ॥
सार्थो दुःखोपहाराय रुद्धोऽस्माभिः स सत्त्ववान् ।
शतानि पञ्च वीराणां जघान जितविक्रमः ॥ ४३२ ॥
इति तेषां वचः श्रुत्वा मायावटुरसंभ्रमः ।
आनीयतामयं वीरो दृष्टव्योऽयमुवाच तान् ॥ ४३३ ॥
तमागतं समालोक्य सङ्ग्रामक्षतविग्रहम् ।
गुणाकरोऽयमित्यूचुस्ते परिज्ञाय विस्मिताः ॥ ४३४ ॥
ततः क्षणं समाश्वस्तं निबद्धत्रणपट्टकम् ।
मृगाङ्कदत्तः पप्रच्छ किमेतदिति सानुगः ॥ ४३५ ॥
इति गुणाकरसमागमः ॥ १० ॥

तमूख


१. 'दुर्गायागोपहाराय ख. २. 'धन' ख. ३. 'मृगादत्तानुमतेस्तूर्णमेवानिनाय

'शनस्तभाव ख.