पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मला अश्रवान्मम ख. २. पुराणानात्म' खी
२४९
बृहत्कथामञ्जरी ।

सा समभ्येत्य दत्त्वा मे स्वयं भुक्त्वा विपर्ययात् ।
अभूच्छागलिका क्षिप्रं क्रमक्षुद्रो हि योषिताम् ॥ ४१२ ।।
निजव्याजनिबद्धां तां छागीमादाय सौनिकम् ।
ततो विक्रयकामोऽहं दृष्टः सौनिकयोषिता ॥ ४१३ ॥
सा प्राह मामहो पाप सखी मे वञ्चिता. त्वया ।
द्रक्ष्यसीत्युद्धता क्रोधकम्पमानकराधरा ॥ ४१४ ॥
ततो दिनान्ते सुप्तोऽहं वृक्षमूले स्थितस्तया ।
कण्ठे बद्धेन सूत्रेण क्षिप्रं नीतो मयूरतान् ॥ ४१५ ॥
कालेन धीवरैर्बध्वा विक्रीतोऽहं विचित्ररुक् ।
अस्मिन्प्रतीहारगृहे स्त्रीणां केलिपदे स्थितः ॥ ४१६ ॥
अद्याहं त्वत्प्रसादेन मुक्तस्तिर्यङ्कनिबन्धनात् ।
भवत्सेवासुखं प्राप्तः प्रमाणमधुना भवान् ॥ ४१७॥
त्वामवश्यं प्रतीहारो रहस्ये भेदशङ्कितः ।
हन्ता प्रातः प्रतिनिशं को नाम न हतोऽमुना ॥ ४१८ ॥
इदमर्गलितद्वारं गृहं सुभयरक्षितम् ।
प्रभाते संशयश्चासौ न जाने किं भविष्यति ॥ ४.१९ ।।
अथवा तेन सूत्रेण मुहूर्तं बर्हिरूपिणौ ।
निर्गच्छावो गवाक्षेणेत्युक्त्या तौ चक्रतुस्तथा ॥ ४२० ॥
इति भीमपराक्रमसमागमः ॥९॥
ततः श्रुतधिना प्रातस्तथा विमलबुद्धिनाः ।
समेत्य तां कथां सर्वां राजपुत्रः समभ्यघात् ।। ४२१ ॥
सभां मायावटोः प्राप्य ते प्रभाते महात्मनः ।
बभूवुर्व्यग्रमनसो द्यूतकेलिकलाविधौ ॥ ४२२ ॥
अथोच्चैः श्रुतधिः प्राह नीलकण्ठोऽद्य नृत्यतु ।
अलं द्यूतेन नः सद्यः प्रतीहारेण वर्णितः ॥ ४२३ ।।


'क्वव सः२. ख.