पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
काव्यमाला ।


लावण्यपुण्यसरितं सिद्धिं रतिपतेरिव ।
यक्ष्मक्षयायः चन्द्रस्य सव्रतामिव रोहिणीम् ।। ४०० ।।
अलकालिकुलां लीलावल्लरीं पाणिपल्लवाम् ।
पेशलामचिरावाप्तविप्रयोगविपल्लवाम् ॥ ४०१ ॥
तां वीक्ष्य हर्षपीयूषवर्षिणीं निर्वृतोऽभवत् ।
चिरान्मनोरथन्यस्तः कस्य लाभो हि नोत्सवे ॥ ४०२॥
सापि तन्मन्मथाशङ्काचकितायतलोचना ।
हृष्ट्वा बन्दिगिरा ज्ञात्वा प्रियं लज्जानतामवत् ।। ४०३ ॥
ततो निवेद्य संहृष्टौ विप्रलम्भकथां मिथः ।
तो बन्दिना समं क्षिप्रं जग्मतुः कोशलां पुरीम् ॥ १०४ ॥
मेघमालिनमाहूयं विदिशाधिपतिं ततः ।
कृत्वा परिणयं भेजे तां कान्तां कमलाकरः ॥ ४०५ ॥
इत्येवं जीवतां तात भवन्ति शुभसंपदः ।
अवाप्स्यस्यचिरादेव वयस्यान्मा ऋशो भवः ॥ ४०६ ॥
इति हंसावलीकथा ॥ ८ ॥
इति पान्थवचः श्रुत्वा संपाप्योज्जयिनीं शनैः ।
प्रतिश्रयार्थं वृद्धायाः प्रविष्टोऽहं निवेशनम् ॥ ४०७ ॥
रूपकत्रयमादाय सा मे भोजनसिद्धये ।
दिदेश खट्वां श्रान्तस्य याचितां जीर्णजालकाम् ॥ ४०८ ॥
शयानस्तत्र जालेन तदुप्तां यवमुष्टिकाम् ।
अपश्यं तां च संजानां सहसा फलितामपि ।। ४०९ ॥
तैर्यवैर्विहितान्सक्तून्मदर्थमुपकल्प्य सा ।
पुनारवात्मनश्वान्यान्ययौ स्नातुं नदीतटम् ।। ४१० ॥
तस्यां गतायामुत्थाय कांस्यपात्रद्वयस्थितान् ।
कृत्वा विनिमयेनाहं तांस्तथैव पुनः स्थितः ॥ ४११ ।।


मला अश्रवान्मम ख. २. पुराणानात्म' खी