पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
]
२४७
बृहत्कथामञ्जरी ।

मुक्तकेशीं खड्गहस्तां तस्याः पश्चात्समागताम् ।
राक्षसीति निजघ्नुस्ते ततः कनकमञ्जरीम् ॥ ३८७ ॥
अथाशोककरी तेभ्यस्तद्वृत्तान्तं न्यवेदयत् ।
विप्रलब्धः परिणये प्राग्यथा कमलाकरः ॥ ३८८ ॥
राजपुत्रोऽथ विज्ञाय तस्याः कपटचेष्टितम् ।
गृहाद्वन्दिनमानाय्य शुशोच मुषितो यथा ॥ ३८९ ।।
क्व सा हंसावली याता ममापुण्यघनोच्चयैः ।
अहो विधातुराश्चर्यं श्रमो निष्फलतां गतः ।। ३९० ॥
अहो न दग्ध्वा तां बालां वह्नौ कुसुमकोमलान् ।
मन्ये संतापमतुलं न त्यक्ष्यति युगैरपि ॥ ३९१ ।।
हा हंसावलि मच्चित्तचन्द्रिके क्वासि देहि मे।
वाचमित्यश्रुलुलितं विललाप नृपात्मजः ॥ ३९२ ॥
ततस्तमवदद्वन्दी देव मा विक्लवो भव ।
अवश्यं विष्णुना दिष्टां तां प्राप्स्यसि सुलोचनाम् ॥ ३९३ ।।
अविषादेन मोहस्य धैर्येण व्यसनस्य च ।
नयेन च प्रमादस्य मूलादुन्मूलनं क्षमम् ॥ ३९४ ॥
धीमतां सत्वशीलानां कृतिनां व्यवसायिनाम् ।
पुनः प्ररोहमायाति त्रुटितोऽपि मनोरथः ।। ३९५ ॥
श्रुत्वेत्युचितमाख्यातं स मनोरथसिद्धिना ।
सह तेनैव दयितां विचेतुं प्रययौ स्वयम् ॥ ३९६ ॥
भ्रान्त्वा महीमविज्ञातो दैवात्तत्प्राप काननम् ।
अवश्यंभाविनो भावा यत्सत्यं मार्गदर्शिनः ॥ ३९७ ॥
तत्र फुल्ललताजाले लीनालिकुलसंकुले ।
स्त्रियं पुष्पसरस्येव सोऽपश्यत्स्तबकस्तनीम् ॥ ३९८ ॥
सेयं हंसावलीत्यारात्तां मनोरथसिद्धिना ।
दैयितां पुण्डरीकाक्षपूजापरिकरोद्यताम् ॥ ३९९ ॥


१. 'लावण्य' ख. २. 'सूचितांस.