पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
काव्यमाला ।

बभुर्विरहिणीशोकतप्तनिवाससोदराः ।
चूतचम्पककिञ्जल्कपिञ्जरा दक्षिणानिलाः ।। 375 ॥
ततो हंसावली तत्र पूर्णपङ्कजिनीतटे।
जले तीरलतापुष्पैर्नारायणभपूजयत् ॥ ३७६ ॥
अत्रान्तरे ज्वरार्तोऽभूत्स्वपुरे कमलाकरः ।
तज्ज्ञात्वाचिन्तयत्सर्वै खिन्ना कनकमञ्जरी ॥ ३७७ ॥
अहो परीक्षाकालोऽयं प्राप्तो मे कूटयोषितः ।
हंसावली ज्वरहरेत्येष वादो ह विश्रुतः ।। ३७८ ॥
आहूता किं विधास्यामि भर्तुज्वरनिवर्तने ।
बुद्धया शोककरी तावत्कदाचिद्भेदिनी भवेत् ।। ३७९ ।।
सख्या द्रोहकराः सर्वा भवन्त्येव यथा ह्यहम् ।
पुरा भद्रशिवा नाम योगिन्युपदिदेश यत् ॥ ३८0 ॥
शून्ये लिङ्गालये कृष्णच्छागासृक्पिशितार्चनैः ।
'वीरो नरोपहारेण भवति ज्वरहा ततः ।। ३८१ ॥
तस्मात्तदेव कृत्वाद्य हत्वा शोककरीं सखीम् ।
ज्वरं च भेदशङ्कां च तुल्यमुन्मूलयाम्यहम् ॥ ३८२ ॥
इति निश्चित्य मनसा कृत्वा शोककरी रहः ।
कार्ये विदितवृत्तान्तामुपहारकथां विना ॥ 383 ॥
द्वारपालान्समाज्ञाप्य राज्ञो रक्षाबलिक्रमे ।
यान्ति चायान्ति या नार्यो विध्या मोच्या न ता इति ॥ 384॥
गत्वा सखीं समादाय शून्ये लिङ्गनिकेतने
कृत्वा यथोदितं सर्वं खड्गाग्रेण जघान ताम् ॥ 385 ॥
अभ्याहता यथा तारं त्रायस्वेतिः कृतारवा ।
जवाद्विवेश शरणं सा राजद्वाररक्षिणः ॥ ३८६ ।।


२. वाला ख. ३ 'खैर न. ४. 'साम् ख. ५. धीरो ख.

खाजगाय-ख