पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-हंसावलीकथा ।]
२४५
बृहत्कथामञ्जरी ।

कोशलामथ संप्राप्य प्रहृष्टः कमलाकरः ।
अन्तःपुरं नृपो गत्वा रेमे वल्लभया सह ॥ ३६२ ।।
तां मनोरथसिद्धिश्च दृष्ट्वा कनकमञ्जरीम् ।
हा वञ्चितो राजपुत्रश्चिन्तयित्वेत्यगाद्गृहम् ॥ ३६३ ॥
तत्र चिन्तापरो बन्दी तदन्वेष्टुं समुद्यतः ।
मात्रा निवारितो राजरहस्यं निर्दहेदिति ॥ ३६.४ ॥
ततो हंसावली लोके दर्शनाशङ्किनी शनैः ।
विवेश निशि निःशषेशोकशालामिवाटवीम् ॥ ३६५ ।।
चिन्तामिव सनिर्वेदां स्वलसेवामिवापराम् ।
जीवन्तीमिव विच्छायां दुर्दशामिव तापिनीम् ॥ ३६६ ।।
वेश्यामिद महातृष्णां चितामिव भयंकरीम् । ..
मायामिव व्यस्तमानां डाकिनीमिव दुःसहाम् ॥ ३६७ ॥
राक्षसीभिः शतघ्नीभिर्निस्त्रिंशैिः पिशिताशिभिः ।
शरजालैश्च निचितां युद्धभूमिमिवोत्कटाम् ॥ ३६८ ॥
घोरां प्रविश्य तां तन्वी बभ्राम तरलेक्षणा ।
हा तातेत्याशु ललितं विलपन्ती मुमोह सा ।। ३६९
शनैः समाश्वास्य मनः पवनात्कुलितालका।
ददर्श शबरीं क्षीणां विरहार्तामिवाङ्गनाम् ॥ ३७० ॥
अथोदिते भगवति व्योमश्रीपतिकौस्तुभे ।
भास्करे चन्द्रविरहक्लान्ते कुमुदिनीगणे ॥ ३७१ ॥
शनैर्व्रजन्ती शोकार्ता सा बाला तरुसुन्दरम् ।
द्वितीयं काननं भेजे मञ्जुकूजद्विहङ्गमम् ॥ ३७२ ॥
अत्रान्तरे वसन्तर्तुविशदाः कुमुदश्रियः ।
विषादाः प्रोषितस्त्रीणां वनान्तेषु चकासिरे ॥ ३७३ ॥
व्याकोशिकिंशुकाशोकपलाशैर्विबभुर्दिशः ।
स्मरप्लोषरुषा स्फूर्जज्ज्वालाजालैरिवोद्गतैः ॥ ३७४ ॥


'रजनीमि' ख. २.'यारामिव न्यस्त ख..३. "वित्रासत'ख.