पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
काव्यमाला ।

ततः कोलाहलोत्तालयालोलजनसंकुले ।
तो कूटकन्यकां प्राप्य प्रययौ कमलाकरः ॥ ३४९ ॥
स व्रजन्विजयस्तत्र यातायात इव स्मरः ।
शाल्मले: सविधं प्राप्य गर्जद्गजघटाकुलः ।। 350 ॥
सहसा तत्र कृतकोद्दामत्रासाकुलेक्षणा ।
त्रायस्वेत्याह तं कम्पलोला कनकमञ्जरी ।। ३९१ ।।
किमेतदिति तेनोक्ता सावदद्देव शाल्मलेः ।
अस्यान्तरे स्थिता स्वप्ने मया दृष्टा निशाचरी ।। ३५२ ।।
तया वित्रासितः कोऽपि ब्राह्मणो मामभाषत ।
नादग्ध्वा शाल्मलिं तेऽद्य श्रेयोऽस्तीति कृपाकुलः ॥३५३ ॥
आर्यपुत्रोऽधुना सर्वं जानातीति तयोदितः ।
शाल्मलिं सेवकैस्तूर्णं राजसूनुरदाहयत् ॥ 354 ।।
दह्यमानं समालोक्य ज्वालालीढनभस्तलम् ।
हा सख्या वञ्चितास्मीति प्राह हंसावली मुहुः ।। 355 ॥
अहोऽनुरूपलोभेन सखी मां मुग्धमानसीम् ।
दग्धुमभ्युद्यता पापा निःशङ्कसुखकाङ्क्षिणी ।। 356 ॥
अयं रतिपतेस्तुल्यः प्रत्यक्षं पुरुषोत्तमः ।
ना धन्यया मया प्राप्तो दैवं वा केन लङ्घ्यते ॥ 357
अहो कान्तिरहो लक्ष्मीरहो यौवनसंपदः ।
अहो नु: राजपुत्रस्य नेत्रसंचरणं तनुः ॥ 358 ॥
अयं स चित्रलिखितः श्रीमान्पद्मदलेक्षणः ।
मन्मानसकृतावासो विलासरससारसः ॥ ३५९ !!
विप्रलब्धास्मि दैवेन प्रविशामि हुताशनम् ।
प्रियाप्राप्तिनिराशेन किं शरीरेणं लोपिना । ३६० ।।
इति संचिन्त्य शनकैः स्मृत्वा भगवतो वचः ।
प्रतीकाराय सख्याश्च नात्यजत्सा निजां तनुम् ।। ३६१ ॥


येरित र ब.२सोषिणा सं.