पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाश्वत्याम्-हंसावलीकथा !]
२४३
बृहत्कथामञ्जरी।

राहुग्रस्तस्य शीतांशोरिव प्रव्रजिता द्युतिः ।
द्रष्टुं तपस्विनीवेषा प्रययौ कमलाकरम् ॥ ३३६ ॥
रत्नोपायनहस्ता सा कान्तं दृष्ट्वा नृपात्मजम् ।
बभूव मन्मथाविष्टा तेन संभाविता क्षणात् ॥ ३३७ ॥
सा विस्मृतसखीस्नेहा तं निर्वर्ण्य स्मरोपमम् ।
तस्थौ तदुन्मुखा कस्य सिद्धये तरुणी सखी ॥ ३३८ ।।
ततो हंसावलीमेत्य साब्रवीन्मन्मथाहता।
उन्मत्तोऽसौ नृपसुतो दृष्टो मन्त्रिवृतो मया ॥ ३३९ ।।
भूतच्छायाभिभूतेन तेन ते नोचितः सखी।
चूतवल्लया इवासङ्गः कीटशुष्केण शाखिना ।। ३४० ॥
इति राजसुता श्रुत्वा न सोऽयमिति चेतसा ।
निश्चित्योद्वाहविमुखी बभूव भृशदुःखिता ॥ ३४१ ।।
सखि त्वं मम वेषेण पाणिग्रहमहोत्सवे ।
भजैनं नहि मे चित्तमन्यत्र कमलाकरात् ॥ ३४२ ॥
इति हंसावली वाक्यं श्रुत्वा कनकमञ्जरी ।
उवाच तद्वशास्मीति सानन्दकृतसंवृतिम् ॥ ३४३ ॥
स्थातव्यं नगरोपान्ते कूटशाल्मलिकोटरे ।
त्वया वृत्तविवाहाहं त्वां समेष्याम्यलक्षिता ॥ ३४४ ॥
हंसावलीमिति स्वैरमुक्ता कनकमञ्जरी ।
तदाभरणवासोभिस्तद्वेषां विदधे तनुम् ॥ ३४६ ॥
कृत्वा विदितवृत्तान्ता सखिद्रोहे निजाकृतिम् ।
हास्यशोककरी नाम विवाहवसुधां ययौ ।। ३४६ ॥
ततो महोत्सवव्यग्रेसमग्रजनमण्डले ।
हंसावली गूढवेषा प्रायात्तं शुष्कशाखिनम् ॥ ३४७ ॥
तत्कोटरं समालोक्य भीषणं मृदुमानसा ।
लताजालान्तरे तस्थौ बाला बकुलशाखिनः ॥ ३४८ ।।


'सुका ख. २, "क्रोड ख.३. 'साप्य ख.