पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
काव्यमाला ।


अङ्गराजं रणे जित्वा कुलभूतिं महाबलम् ।
जीवग्राहं गृहीतस्वं प्राहिणोन्नगरीं पितुः ।। ३२४ ॥
भग्नासु शत्रुसेनासु समरे प्रतिबिम्बितम् ।
खड्गान्तर्निजमेवैकं सोऽपश्यत्संमुखं सुखम् ।। 325 ॥
क्षिप्त्वा यशो दिगन्तेषु सह भिन्नेभमौक्तिकैः
कपोलपत्ररहिताः स चक्रे शत्रुयोषितः ।। ३२६ ॥
विदिशां शनकैः प्राप्य तस्थौ वेत्रवतीतटे।
नर्तयन्गजगर्जाभिरुद्यानशिखिमण्डली ।। १२७ ॥
तत्र दूतेन भूपालं ययाचे मेघमालिनम् ।
हंसावलीं स्मरावासनिजमानसवासिनीम् ॥ ३२८ ॥
ततः स्वयं समभ्येत्य मेघमाली प्रणम्य तम्
उवाच कृतकृत्योऽहं त्वदाज्ञाकारणादिति ॥ ३२९ ।।
निर्दिष्टा विष्णुनैवैषा मत्सुता तव बल्लभा ।
तत्करस्पृष्टशिरसां देहिनां शाम्यति ज्वरः ।। ३३० ।।
वितीर्णा तनया तुभ्यं वत्स हंसावली मया ।
प्रातः क्षपायां भविता युष्मत्परिणयोत्सवः ॥ ३३१ ।।
इत्युक्त्वा विदिशाधीशः प्रविश्यान्तःपुरं निजम् ।
चक्रे विदितवृतान्तां तनयां वल्लभां तथा ॥ ३३२ ।।
हंसावली चित्रगतं ध्यायन्ती कमलाकरम् ।
स एवान्योऽथवा कश्चिदिति दोलाकुलाभवत् ।। ३३३ ।।
सा दिदेश सखीं स्वैरं कान्तां कनकमञ्जरीम् ।
दृष्ट्वा राजसुतं तूर्णमेहीत्याहितसंशया ॥ ३३४ ॥
बद्धकूटजटाजूटा ततः कनकमञ्जरी ।
कृष्णाजिनोत्तरासङ्गपीडितोच्चकुचस्थली ॥ 335 ॥


'त्वासों ख... सन्नं कुम्भमदोत्सेके ख.३, बकम्' स... श्रहणादि-

भिख में व बंधमुक्तावली' ल.