पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाश्वत्याम्-हसावलीकथा ।
२४१
बृहत्कथामञ्जरी ।

प्रतिपञ्चन्द्रलेखेव ततः सा चारुहासिनी ।
मनोभवानलज्वालाकुलिता तनुतां ययौ ॥ ३११ ॥
क्षीणा ज्वरापदेशेन बिभ्रतीं सारविक्रियाम् ।
द्रष्टुं पित्राभ्यनुज्ञाता श्रेयसे श्रीपतिः स्वयम् ॥ ३१२ ॥
ततो दर्दुरकेणाहं विहितो ज्ञाततत्कथः ।
कृतप्रवेशस्तेनैव युक्त्या तं देशमाविशम् ॥ ३.१३ ॥
तत्र हंसावली दृष्टा मया विरहनिःसहा ।
हंसावलीव नलिनीदलशय्याकृतस्थितिः ॥ ३१४ ।।
दृष्ट्वा तां विष्णुनिलये राजपुत्रीं स्मरातुराम् ।
अपठं स्तुतिमभ्येत्य शौरीं तब्यस्तलोचनः ।। ३१५ ॥
जय कमलाकरलालित चरणसमाक्रान्तविश्व विश्वात्मन् ।
प्रकटसुदर्शन कान्ते पुरुषोत्तम पुण्डरीकाक्ष ।। ३१६ ॥
इति प्रिया तामश्लिष्टां सा श्रुत्वा भगवत्स्तुतिम् ।
पुनः पुनः पठेत्याह मां हर्षाकोशलोचना ॥ ३१७॥
प्रत्यभिज्ञायः सा मह्यं ददौ चीनांशुकद्धयम् ।
तत्पल्लवे तया न्यस्ता गाथैषा रक्तचन्दनैः ।। ३१८ ॥
सेवेयं तत्करन्यस्ता दृश्यतेऽशुकपल्लवे ।
गाथा पुष्पशरस्येव दीक्षामन्त्राक्षमालिका ॥ ३१९ ॥
श्रुत्वेति राजतनयः सहसा मनसा दधौ ।
तामेव मन्मथाक्रान्तो दिव्यं हि नयनं मनः ॥ 320 ॥
कदाचिदथ पित्रासौ दिग्जयाय महाभुजः ।
आदिष्टो निर्ययावब्धिवेलाविश्रान्तसैनिकः ॥ ३२१ ॥
तत्तुरङ्गखुरोद्धृतसान्द्रधूलिकदम्बकैः ।
दिग्वारणाः क्षणं तस्थुस्तदाघातसमुत्सुकाः ।। ३२२ ।।
स राजतनयां ध्यायन्प्रययौ विजयोन्मुखः ।
संस्मरन्राजकदलीं मीलिताक्ष इव द्विपः ।। ३२३ ।।


'छमा ख.

तिं ययौ ख.३, “स' ख. ४.-५. पत्' ख.