पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
काव्यमाला ।

मूर्तेव कौशिकी वृत्तिर्नाट्यस्येवाधिदेवता।
सामात्यस्य पितुस्तत्र चक्रे कमपि विस्मयन् ।। २९९ ॥
विलासललितं तस्या विबभौ वदनाम्बुजम् ।
नान्दीश्रवणसंतोषाज्चन्द्रः साक्षादिवागतः ॥ ३०० !!
सा बालानिललोलेव पेशला कल्पवल्लरी।
संसारसरसालोकैर्भावामृतफलं ददौ ॥ ३०१ ॥..
बालचूताङ्कुरस्वादः कलकोकिलनिःस्वना ।
सा पपाठ विपञ्चीव पञ्चमानुगतस्वरा ।। ३०२ ।।
जयति स नाभिसरोरुहमधुपटलैर्निवासिताकारः ।
शौरिः श्रीमुखचन्द्रे यत्कान्तिर्लाञ्छनच्छाया ॥ ३०३ ॥
इति ब्रुवाणा वक्राब्जसौरभाहृतषट्पदैः ।।
सा बभौ प्रेक्षकोद्भूतसाधुवादाक्षरैरिव ।। ३०४ !!
ततो दिनान्ते तनयानाट्यदर्शननिर्वृते ।
अन्तःपुरं गते राज्ञि वृते सामाजिकोत्सवे ॥ ३०५ ।।
अचिन्तयमहं देव कन्येयं मृगलोचना ।
कमलाकरदेवस्य योग्यैवेति मुहुर्मुहुः ।। ३०६ ॥
ततः कृतप्रवेशोऽहं युक्त्या राजनिकेतनम् ।
कन्यान्तःपुरचित्रे त्वत्तुल्याकारमलीलिखम् ।। ३०७ ।।
विहितोन्मादवेषोऽथ वयस्यो मम दर्दुरः ।
चित्रस्थं प्रकटीकर्तुं त्वां तुष्टाव मुहुर्मुहुः ॥ ३०८ ।।
नामाभिजनमाकर्ण्यं त्वदीयं तेन वर्णितम् ।
त्वदाकारैकविन्यस्तलोचनां साभवच्चिरम् ॥ ३०९ ॥
ततो मवावतारेण सारेण रुचिरद्युतिः ।
सा बभूव वसन्तेन लतेवोत्कलिकाकुला ॥ ३१० ॥


१. जलावण्यविशाला के ख. २ 'शृङ्गाररस' ख. ३. नेत्राम' ख. 'श्राव

खोदू रु. ५. "दुर्दर