पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-हंसावलीकथा ।
२३९
बृहत्कथामञ्जरी ।

तात्पर्याद्गदितां श्रुत्वा स मनोरथसिद्धिना ।
किमेतदिति पप्रच्छ तं रहः कौतुकाकुलः ॥ 287 ॥
सोऽब्रवीदस्ति नगरी विदिशा नाम विश्रुता।
आवर्तमानया लक्ष्म्या विदिशेव तमाश्रिता ॥ २८८ ॥
मेघमालीति विख्यातस्तस्यामस्ति महीपतिः
(यत्कीर्त्या विहिता "नामङ्कालिङ्गननिर्वृतिः) ॥ २८९ ॥
तस्य हंसावली नाम तनवास्ति शुचिस्मिता !
मुक्तावलीव कामस्य विस्तीर्णगुणगुम्फिता. ॥ २९० ॥
सुमुखी पल्लवकरी स्तनस्तबकशालिनी।
सचन्द्रपारिजातेव लहरी क्षीरवारिधेः ॥ २९१ ॥
मन्मथायोपनीतेव वेधसा विजगज्जये।
(नवलावण्यनिर्माणहस्तोपायनपुत्रिका) ।। २९२ ॥
यदृच्छया गतो रम्यां स कदाचित्पुरीमहम् ।
न्यवसं दर्दुराख्यस्य नाट्याचार्यस्य वेश्मनि ।। २९३ ।।
अत्रान्तरे राजसुता नर्तकेन सुशिक्षिता ।
पितुः पुरो नृत्यतीति प्रवादो नगरेऽभवत् ।। २९४ ॥
ततोऽहं कौतुकाविष्टो नाट्याचार्यसमाश्रयात् ।
अविशं सार्जवं गर्जन्मुरजं नाट्यमण्डलम् ॥ २९५ ॥
मूर्च्छद्वीणासमालापतालच्छन्नकलाविधौ ।
संप्रवृत्ते ध्रुवं गाने वरयात्राविधायिनी ॥ २९६ ।।
अत्रान्तरे विश्वसृजा राज्ञेै दत्ता जगज्जये ।
नवलावण्यनिष्प्राणहस्तोपायनपुत्रिका ।। २९७. !!
विवेश सत्त्वसंपन्ना सुधाभिनयशालिनी !
ततो हंसावली हेलाविकीर्णकुसुमाञ्जलिः !! २९८ ।।


१. एतरकोष्टान्तर्गतपाठः ख-पुस्तके त्रुद्धितः २. 'मोहनीषधी' ख, ३. एतत्को-

वान्तर्गतपाठः ख-पुस्तके त्रुटितः ४. उपश्यं कदाचिता पुरीमहम्' ख. ५. सा शु- भाङ्गी ख. ६. 'मार्जनाराजान्मुख. ७. "स्थितक ख. ८. 'सूत्रामि ख.