पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३८
काव्यमाला ।

श्रुत्वेति तं परित्यज्य प्राह भीमपराक्रमः ।
अप्यहं नागशापेन प्रविष्टो विकटाटवीम् ।। २७५ ॥
दर्भसूचीचितां घोरां दावाग्निपुष्टपादपाम् ।
उद्भूततप्तसंसिक्तां संजातमृगतृष्णकाम् ॥ २७६ ॥
खिद्यद्वराहमहिषां ताम्यत्तप्तभुजङ्गमाम् ।
शुष्यत्कुरङ्गशशकां तृष्यच्छिखिकुलाकुलाम् ॥ २७७ ॥
तत्र भ्रान्तं चिरं श्रान्तं मूले शाल्मलिशाखिनः ।
प्राणत्यागे कृतोद्योगं मां वृद्धपथिकोऽब्रवीत् ॥ २७८ ॥
परिम्लानमुखच्छायो भद्र किं परितप्यसे ।
संसारदुःखसरणिर्वैक्लव्येन न लङ्घयते ।। २७९ ॥
इत्युक्त्वा मत्कथां श्रुत्वा पुनराह महाद्युतिः ।
वृद्धपाथो न शोकेन वीराणां स्पृश्यते मनः ॥ २८० ॥
अवश्यं हि भवत्येव जीवता संगमः पुनः ।
धैर्यं श्रय विपत्स्फारजलधेः सेतुरेव तत् ॥ २८१ ॥
कोशलायामभूद्भूपो विभूतेः प्रथमाकरः ।
तारापतिकराकारचरितो विमलाकरः ॥ २८२ ॥
कमलाकरनामाभूत्कमलाकमलाकरः।
तनयस्तस्य राजश्रीविलासमणिदर्पणः ।। २८३ ॥
साङ्गोऽयमपरोऽनङ्गः सोऽङ्गनापाङ्गसंगतिः ।
इत्यूचुर्यस्य यात्रासु तरुण्यो रूपविस्मिताः ॥ २८४ ॥
बन्दिमागधसूतेभ्यो वितरन्मणिकङ्कणान् ।
पठिता बन्दिवर्येण शुश्रावार्यो स विस्मितः ॥ २८५ ॥
कुवलयभूषणममलं गुणनिलयं कविसहस्रनिर्घुष्टम् ।
हंसावलिः क्व रमते कान्तं कमलाकरं मुक्ता ॥ २८६ ॥


१(बदत' ख. २. "मतिः' ख...३. धीराख. ४. चितो तुमलाकरःख.