पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-हंसावलीकथा।]
२३७
बृहत्कथामञ्जरी।

ततो मृगाङ्कदत्तेन स तेनानुगतः क्षणात् ।
स चण्डकेतुरविशद्विलेनान्तःपुरोदरम् ॥ 262 ॥
मायाबटुप्रियां तत्र स मञ्जुमतिकाभिधाम् ।
प्राप्य लेभे स्मररसात्तदालिङ्गननिर्वृतिम् ॥ २६३ ।।
अलक्षितो बिलच्छिद्रन्यस्तनेत्रो ददर्श तम् ।
मृगाङ्कदत्तो दुःशीलां तां च भायाबटोर्वधूम् ॥ २६४ ।।
ईर्ष्या विवादे स तया प्रतीहारो विरोधितः ।
चकर्ष शस्त्रं रागो हि खलानां कलहोदयः ॥ २६५ ॥
रतोत्सवे प्रस्तुतेऽपि संजाते शस्त्रसंभ्रमे ।
छिन्ना निवारणे तत्र दास्याः करतलाङ्गुलिः ।। २६६॥
ततः क्रुद्धः स निर्गत्य निजवेश्म व्रजन्निति ।
मृगाङ्कदत्तमज्ञात्वा चण्डकेतुरभाषत ।। २६७ ॥
तूर्णमेह्येति गच्छावः खिन्नौ दीर्घप्रजागरात् ।
निद्रां प्राप्त्वा निजगृहं विश्रब्धो यास्यसि प्रियः ॥ २६८।।
इत्युक्त्वा तेन नीतोऽहं स्वगृहं द्रोहचेतसा।
दृष्टमच्चरितो वध्यो ममायमिति निश्चयात् ॥ २६९ ॥
मृगाङ्कदत्तस्तद्गेहं प्रविश्यालक्षितो निशि ।
प्रदिष्टस्तेन निद्रार्थं शून्यमन्दिरमाविशत् ॥ २७0 ॥
प्रतीहारगृहे तत्र स्थितो दीपांशुमालिनि ।
केलीशिखण्डिनं दूराद्ददर्श रुचिरच्छविम् ॥ २७१ ॥
सुस्निग्धालोकिनस्तस्य बन्धोरिव गलस्थितम् ।
स. गाढबन्धनं सूत्रं कृपयैव व्यमोचयत् ।। २७२ ॥
कण्ठसूत्रे व्यपगते सोऽभूद्भीमपराक्रमः ।
मृगाङ्कदत्तस्तं दृष्ट्वा हृष्टः पप्रच्छ विस्मयात् ।। २७३ ॥
सखे हर्षसुधासिन्धुसंभ्रमः किमयं कुतः ।
वृत्तं वा कथ्यतां सर्वं स एवास्ति यतः स्फुटम् ॥ २७४ ।।


१. 'छन्न्नानुग' ख. २. 'केतुना ख, ३. 'ते' ख. ४. 'न्यवारयत् ख. ५. ग' ख.