पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
काव्यमाला ।

तथा दुर्गपिशाचाद्यैः साक्षाच्छक्र इवागतः ।
मायाबटुगृहे प्रीतः किंचित्कालमुवास सः ॥ २४९ ॥
तत्र पर्जन्यनिर्घोषप्रनृत्तेषु शिखण्डिषु ।
शबरेन्द्रप्रतीहारश्चण्डकेतुरभाषत !! २५० ।।
गृहे मम मयूरोऽस्ति योऽस्तं भानौ गते सदा ।
अनपेक्षितपर्जन्यो नृत्यतीन्द्रायुधच्छविः ।। 251 ॥
इत्युक्त्वा शबरेन्द्रेण द्युतकेलिकलापिनम् ।
न चिरादानयामीति चण्डकेतुरभाषत ॥ २५२ ।।
ततः सूर्येऽस्तमायाते वृतासु तिमिरैर्घनैः ।
मिल्लपल्लीषु मायूरपिच्छकच्छादनैरिव ॥ 253 ।।
नद्धासु दिक्षु सर्वासु कौञ्जरैरिव चर्मभिः

आकाशे शबरीकेशयात्रासंकाशशोचिषि ॥ २५४ ॥
एको मृगाङ्कदत्तोऽथ ब्रजन्केनापि ताडितः ।
स्कन्धे स्कन्धे सतिमिरे तत्कोपादिदमभ्यधात् ॥ 255 ॥
अरे दर्पोद्धतः कोऽयं मत्कोपाग्निपतङ्गकः ।
श्रुत्वेत्याह प्रतीहारश्चण्डकेतुरलक्षितः ।। २५६ ॥
चौरोऽहं नापराधो मे चन्द्रस्यैष व्यतिक्रमः ।
यदालोकं विनालोकः सन्नेत्रोऽप्यन्धतां गतः ॥ २९७ ॥
दैवस्य वातिचारोऽयं येन त्रैलोक्यचक्षुषः ।
तस्यापि भानोर्विहिताः संपदा परिवृत्तयः ॥ २५८ ॥
मृगाङ्कदत्तः श्रुत्वेति चौरोऽहमितिवादिनम् ।
तमवादीदहमपि स्तेन एव परस्वहृत् ॥ २५९ ॥
इति तावत्परिज्ञाय मिथः सौहार्दमाश्रितौ।
सस्रतुः पथि तौ श्यामातमःसंवीतविग्रहौ ॥ २६० ।।
मायाबटोः प्रतीहारः स हि प्रच्छन्नकामुकः ।
सदा तन्महिषी रात्रौ भजते गूढरागिणीम् ॥ २६१ ॥


धोषेण प्र' ख. २. 'इर्शयानीति' ख, ३. 'न ख. ४, झुर ख.