पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाश्वत्याम्-हंसावलीकथा ।
२३५
बृहत्कथामञ्जरी ।

विदार्य कुञ्जरान्मत्तान्पुंसा लम्बोदरेण सः ।
दृष्टमार्गः प्रियां प्राय केसरी धवलद्युतिः ॥ २३८ ।।
इत्याश्चर्यं तदालोच्य ब्रह्मदण्डिं महामुनिम् ।
अपृच्छं सोऽपि मामाह भगवाञ्ज्ञानलोचनः ।। २३९॥
संसारचक्रसंसक्ता भृङ्गास्ते कामिनो नराः।
महामाया च सा योषिद्धर्माधर्मौ वृषखरौ ।। २४० ॥
विषं नरकदुःखं तत्सिन्दुवारं सुरालयः ।
महेश्वरेण कृपया मुक्तास्ते ध्वस्तकिल्विषाः ।। २४१ ॥
वंशेन ब्रह्मरन्ध्रेण यातास्तेजोमयं पदम् ।
सिंहो मृगाङ्कदत्तस्य वयस्यास्तस्य वाहनः ।
लम्बोदरप्रसादेन स कान्तां ध्रुवमाप्स्यति ।। २४२ ।।
इत्यहं तेन मुनिना प्रशान्तेन विबोधितः ।
देव त्वदन्तिकं प्राप्तः प्रमाणमधुना शिवः ।। २४३ ॥
इति संसारचक्रम् ॥७॥
मृगाङ्कदत्तः श्रुत्वेति चित्रं श्रुतधिना सह ।
विस्मयं परमं भेजे धृतिं वीरो बबन्ध च ॥ २४४ ॥
स गच्छन्नर्मदां प्राप फेनहासविलासिनीम् ।
माद्यद्विहङ्गवाचालमेखलां नर्मदायिनीम् ॥ २४५ ॥
ददर्श तत्र सलिले युवानं शबराधिपम् ।
स्थानव्यग्रमहाग्राहैर्गृहीतं कुञ्जरोपमैः ॥ २४६ ॥
मृगाङ्कदत्तस्तदृष्ट्वा ग्राहं छित्त्वा महासिना।
वीरो मायाबद्धर्नाम शबरेन्द्रममोचयत् ।। २४७ ॥
ततः संजातसौहार्दस्तेनानीतो निजालयम् ।
प्रणम्य पूजितो दूराच्चण्डालैः शबराधिपैः ।। २४८ !


१. 'ग्धकि ख. २. 'दैवात्त्वदन्तिक ख.३. मायद्विहनमालायां नर्मदासिव का-

मिनीम् ख. ४. 'धारो ख.