पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
काव्यमाला ।

इति तद्वचसा सर्वे तिमिरेण तिरस्कृताः ।
ययुः संभ्रान्तमनसः सहसैव पृथक्पृथक् ॥ २२६ ।।
इति पारावताक्षशापः ॥ ६ ॥
मृगाङ्कदत्तः शोकार्तो ययौ श्रुतधिना मुहुः ।
आश्वास्यमानो यत्नेन ततो वज्रैरिचाहतः ।। 227 ॥
तत्संगमाशां हृदये विनायोज्जयिनी शनैः ।
निःसहः प्रस्थितो गन्तुं दृष्टो विमलबुद्धिना ।। 228 ।।
स साश्रुलोचनो गाढं परिष्वज्य नृपात्मजम् ।
उवाच दीर्घं निःश्वस्य हर्षशोककरन्वितः ।। २२९ ।।
अस्याहं तेन नागेन क्षिप्तो विन्ध्यगिरेस्तटे ।
अपश्यं तेजसा राशिं ब्रह्मगण्डिं महामुनिन् । २३० ॥
-ततोऽपश्यं ललनया वर्त्य॑मानं समन्ततः ।
कुलालचक्रमुद्भ्रान्तैर्भ्रमरैरभितो वृतम् ॥ २३१ ॥
तत्र स्थितौ वृषस्वरौ तयोः फेनं सितारुणम् ।
पीत्वा ते तत्यजुर्विद्यां भृङ्गाः सुप्तां सितासिताम् ॥ २३२ ॥
सहसा तत्समुद्भूतांस्तन्तुकाराः सितत्विषः ।
असिताच्चासितोत्पन्नाश्चक्रुर्जालं सितासितम् ।। 233 ।।
तेन जालेन मधुपा बद्धा वर्णविभेदिनः ।
ययुर्विषलतामेके सिन्दुवारलतां परे ॥ २३४ ॥
ततो विषार्ताश्चक्रन्दुस्तच्छ्रुत्वाथ विषस्पृशः ।
चुक्रुशुः करुणं तत्र कश्चिन्मुनिरथाशृणोत् ।। 235 ॥
तल्ललाटसमुत्थाग्निकणदग्धोग्रबन्धनाः ।
वंशजालेन निर्गत्य तेजसश्छत्रमाविशन् । २३६ ॥
इत्यहं कौतुकं दृष्ट्वा पुनश्चापश्यमुन्नतम् ।
दशबाहुं महासिंहं सिंहैरनुसृतं वने ॥ २३७ ॥


१. यह ख.