पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-पारावताक्षशायः 1]
२३३
बृहत्कथामञ्जरी।

चिरं ध्यात्वा न तु यदा योग्यं पश्यामि कंचन ।
सुचिरं भृशसंतप्तस्तदाहं मर्तुमुद्यतः ।। २१३ ॥
मृगाङ्कदत्तः श्रुत्वेति तमुवाच तपस्विनम् ।
अहं सहायः सामात्यः स्थितस्ते भगवन्निति ॥ २१४॥
पादलेपं ततस्तेभ्यस्तपस्वी मुदितो ददौ ।
येन व्योमचराः सर्वे प्रापुर्विन्ध्याटवीं क्षणात् ॥ २१५ ॥
तत्र नागेन्द्रभवनोपान्ते मन्त्रविधिव्रतः ।
जुहाव शिंशिपामूले स तपस्वी हुताशनम् ॥ २१६ ॥
खादिरैः कीलकैबद्धे दिक्चक्रे विनिधाय तान् ।
मृगाङ्कदत्तप्रसुखान्स बभौ दिक्पतीनिव ॥ २१७ ॥
ततोऽदृश्यत मत्तालिलोलनीलोत्पलेक्षणा ।
ललना स्मरसर्वस्वं बिभ्राणा नवयौवनम् ॥ २१८ ॥
सा क्वणन्मेखलादामा मणिकङ्कणनूपुरा ।
परिचर्या चकारास्य होमोपकरणे पुरः ।। २१९ ॥
बिलासवलिता तत्र व्यग्रा चटुलचारिणी ।
अलक्षितं सा पस्पर्श स्तनेनाङ्गं तपस्विनः ॥ २२० ॥
तत्कुचस्पशसंहर्षविकारक्षुब्धचेतसः ।
होमभाण्डं पातांशु तस्य कम्पजुषः करात् ॥ २२१ ।।
अत्रान्तरे संमुत्तस्थौ मेघः स्थगितदिङ्मुखः ।
विद्युन्निपातनिर्धातधोरघोषः फणीश्वरः ।। २२२ ॥
मृगाङ्गदत्तप्रमुखा वीक्ष्य नागं समुत्थितम् ।
गम्भीरधीरसंरम्भखड्गहस्ताः समुद्ययुः ।। २२३ ॥
पारावताक्षः संनद्धान्दृष्ट्वा तानवदद्विषः ।
युष्मद्गुरुर्विपन्नोऽयं वञ्चितो विघ्नयोषिता ॥ २२४ ।।
यूयमेकीकृता येन नियुक्ता मम विप्रिये ।
वियिोगस्तूर्णमेवास्तु भवतां विपिने मिथः ॥ २२५ ॥


'देशाख.२. सचिवे ख३. किङ्कर ख.