पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
काव्यमाला ।

तत्कोपादस्मि शप्तश्च पित्रा शुष्कद्रुमोऽभवम् ।
युष्मत्फलोपभोगान्तः स च शापो गतोऽद्य मे ॥ २०१ ॥
शुभ्रशास्त्रेन्दुजलधिर्योग्योऽहं नृपसेवने ।
अधुना प्रतिपन्नोऽहं भवन्तं सेवितास्मि ते ॥ २०२ ॥
इति श्रुतधिसमागमः ॥ ५॥
श्रुतधेर्वचनं श्रुत्वा ते निवेद्य निजां कथाम् ।
तेनैव सहिताः प्रातः प्रययुर्दक्षिणां दिशम् ॥ २०३॥
करिमण्डितकं नाम ते प्रविश्य महद्वनम् ।
द्विजैनिमन्त्रितास्तत्र त्रिफलासत्त्वपायिभिः ।। २०४ ॥
याता पञ्चशती तेषां वत्सराणां किलायुषः ।
आमन्त्र्य वज्रसाराङ्गास्तान्किरातपुरं ययुः ।। २०५ ॥
सुहृदा संगतस्तत्र किरातपतिना ततः ।
कर्तव्यमानुकूल्यं मे कार्येष्विति तमर्भ्यधात् ।। २०६ ॥
शक्तिरक्षितकाख्येन सादरं तेन पूजितः ।
महाटवीं प्रविश्यारादपश्यद्वृद्धतापसम् ॥ २०७॥
स तैः पृष्टोऽब्रवीत्पूर्वं शुद्धकीर्तिरभूद्वती !
तस्यास्मि शिष्यः पृथिवीं भ्रान्तस्तैद्दर्शनोत्सुकः ॥ 208 ॥
तत्र दृष्टो मया कश्चिद्भव्यो राजकुमारकः ।
स्वस्थवेषं समाधाय निधिसिद्धरसौषधीः ।। २०९ ॥
स सर्वमुक्त्वा मामाह विन्ध्याटव्यां तृणावृते।
नागः पारावताख्योऽस्ति भवने हंससूचिते ।। २१० ।।
वैदूर्यकान्तिर्नामास्ति खड्गस्तस्य महाप्रभः ।
सिद्धाधिपत्यं येनाशु पालिसक्तेन लभ्यते ॥ २११ ॥
इत्याकर्ण्य प्रयातोऽहं मन्त्रोद्वेषाद्विमुच्य ताम् ।
प्राप्याटवीमिमां सिद्धथै सहायश्चिन्तितो मया ॥ २१२ ॥


बधिबतामिति ख. २. कथयित्वा' ख. ३. 'स्वे' ख, ४. रसपा ख.

सिद्धिशतोत्सुका ख... 'पाणिस ख... 'वेशाख.