पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाश्वत्थाम्-श्रुतधिसमागमः।]
२३१
बृहत्कथामञ्जरी ।

शर्वरीशबरीकर्णकेतके तुहिनत्विषि ।
समुद्गते नमःकालकपालदलविभ्रमः ॥ १८९ ॥
स्फटिकस्तम्भसंभारडम्बरे रश्मिमण्डले ।
दिग्दन्तिदन्तविपुले जाते हरिणलक्ष्मणः ॥ १९0 ॥
तस्य शुष्कतरोः सर्वे प्ररूढामङ्कुरश्रियम् ।
विलोकयन्पल्लविनं पुष्पहासं च ते शनैः ॥ १९१ ।।
ततः फलमरैर्नम्रः स बभूव महातरुः ।
सर्वासापूर्णसहो गुणैरिव कुलोद्धतः ॥ १९२ ॥
क्षिप्रं फलानि पक्वानि तस्य पेतुर्महीतले ।
तं दृष्ट्वा विस्मिताः सर्वे ते चक्रुः प्राणवर्तनम् ॥ १९३ ॥
ततः स तैर्मुक्तफलो बभूव सहसा द्विजः ।
शुभ्रयज्ञोपवीताङ्गश्चन्द्रांशुभिरिवावृतः ।। १९४ ॥
कौतुकादथ तैः पृष्टः सोऽब्रवीद्धेतुमात्मनः ।
आर्जवं ब्रह्मसुलभं दन्तांशुभिरिवोद्वमन् ॥ १९५ ॥
दुमधिर्नाम विप्रोऽभूदयोध्यानिलयः पुरा ।
तस्य शान्तिमती नाम भार्यासीद्धर्मचारिणी ॥ १९६ ।।
अहं च श्रुतधिर्नाम पुत्रस्तस्य मनीषिणः ।
ततः कदाचिद्दुर्भिक्षे माता मे निजभोजनम् ॥ १९७ ॥
दत्वार्थिने क्षुधार्ताय धन्या तत्याज जीवितम् ।
ततः पिता मे बभ्राम क्लान्तः क्षुद्विकलः क्षितिम् ॥ १९८ ॥
दत्तं पुण्यवता प्राप केनापि फलपञ्चकम् ।
स मह्यं त्रीणि संकल्प्य फलानि द्वे तथात्मने ॥ १९९ ॥
ममज्जान्तर्जले तातः क्षणं जपपरायणः ।
ततः फलानि सर्वाणि लौल्यादहमभक्षयम् ॥ २०0 ॥


१. 'तुलविक्रमे ख. २. "णि ख. ३. 'व्यलो' ख. ४. गतः' ख.

'द्वत्त' ख. ७. हिन्' ख.८कि ख. ९. स्वातुं' ख.