पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-श्रुतधिसमागमः
२२९
बृहत्कथामञ्जरी।

स्मरयक्ष्मपरिक्षीणा ततोऽहं पञ्चतां गता।
गन्धवत्याः परिसरे सरितः पितुराज्ञया ।। १६५॥
पुण्यतीर्थफलादस्मि सर्वज्ञा स्मरचिन्तनात् ।
वेश्या यातेतिपर्य॑न्तचिन्ता तुल्यपुनर्भवा ॥ १६६ ॥
जातिस्मरायाः श्रुत्वेति वचस्तस्या महामुनिः ।
बभूव विस्मयग्रस्तविकल्पघनडम्बरः ॥ १६७ ।।
इत्युक्त्वा पुष्कराक्षस्य विजितासुः स्वयं ददौ ।
रङ्कुमालिनमाहूय तत्पुत्री तरलेक्षणाम् ॥ १६८ ॥
विद्याधरीं समासाद्य रथं च व्योमगामिनम् ।
गत्वा त्वां नगरीं भेजे पुष्कराक्षो निजां श्रियम् ॥ १६९ ॥
इति विनयवत्याख्यायिका ॥ ४॥
अस्त्येवं पूजिता देवाः पुण्यभाजामभीप्सितम् ।
मृगाङ्कदत्त कामं ते. शर्वः सर्वं विधास्यति. ॥ १७० ।।
इति चित्रकथेनोक्तः श्रुत्वा राजसुतः स्मयात् ।
शशाङ्कवत्याः ख्वातेषु गुणेषु गणनां व्यधात् ॥ १७१ ॥
ततः कदाचित्ताम्बूलगण्डूषं हर्म्यशेखरात् ।
मृगाङ्कदत्तस्तत्याज स पपात सुमन्त्रिणि || 172 ॥
मन्त्री विनयवान्नाम विलोक्य तंदशङ्कितम् ।
प्रदध्यौ निबिडक्रोधो राजसूनोः प्रतिक्रियाम् ॥ १७३ ॥
मृगाङ्कदत्तोऽप्यालोच्य सचिवं गमने मतिम् ।
शशाङ्कवत्यामेकाग्रो विदधे ध्याननिश्चलः ॥ १७४ ॥
पुरीं सुरक्षितद्वारां मत्वा ते गुप्तगोपुराम् ।
महाव्रतिकवेषेण गन्तुं चक्रुर्विनिश्चयम् ॥ १७५ ॥
ततोऽस्थिकेशखट्वाङ्गकपालैर्व्रतडम्बरम् ।
गुप्तमाह्रत्य विदधे गृहे भीमपराक्रमः !! १७६ ।।


१. 'रन्ती त परि' ख. २. 'स्तविक रु. ३. 'क्षाय' ख, ४: 'इत्येवं पूर्यते

दैवात्पुण्यभा' ख. ५. 'म'