पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
काव्यमाला ।

पद्मं तद्वदनभ्रष्टं गङ्गातीरे महामुनिः ।
कुण्डादस्यार्चने शंभुलिङ्गे छत्रमिवापतत् ॥ १५३ ॥
स च हंसो निषादेन भुक्तो हंसी च शूलिने।
नैवेद्यं मुनिनानेन कल्पिता कर्मशक्तितः ॥ १५४ ॥
हंसस्त्वं भूपतिर्जातो. पद्मपाताच्छिवार्चने ।
विद्याधरी च कन्येयं जाता शर्वनिवेदनात् ॥ 155 ॥
इत्येवं पूर्वभावेन कन्या विनयवत्यसौ ।
पर्यायभावसदृशी प्राणिनां सततं गतिः ।। १५६ ॥
नगर्यामेकलव्यायामेणकर्ताभिधो मुनिः ।
स्वयंभूशंभुनिलये तस्थौ जपपरायणः ।। १५७ ॥
देवदासी ततोऽभ्येत्य मदलीलाविलासिनी।
चक्रे रूपवती नाम शंभोर्विजयवीजनम् ॥ 158 ।।
चामरानिलवित्रस्तो दह्यमानः क्रुधा मुनिः ।
सोऽभवद्भुकुटीभीमस्ततस्तं प्राह नर्तकी ॥ १५९ ।।
भजस्व जपमेकाग्रो मुनीनां विक्रमागमः ।

शुभाशुभध्यानधिया भवत्येव भवभ्रमः ॥ १६0 ॥
क्रोधधूमेन धवलं मा मनो म्लानतां नय ।
"जपयज्ञे स्थितो ह्यस्मिंस्तच्चित्तस्तन्मनी भव ।। १६१ ॥
तथा ह्यहं वणिक्पुत्री मुने जन्मान्तरे पुरा ।
(अकार्यं ब्रह्मचर्याय प्रतिज्ञां कन्यका सती) ।। १६२ ॥
ततः कदाचित्सौधस्था नवयौवनशालिनी ।
कमलाकरनामानमपश्यं तरुणं द्विजम् ॥ १६३ ।।
तदेकाग्रा मनोजन्मशरश्रेणीवशीकृता ।
नात्यज़ं ब्रह्मचर्यैकसंकल्पं दृढनिश्चया ॥ १६४ ॥


ख. पर्यन्तभाव ख. ४. 'डकर्णामियो'

भ्रश्यदक्षमाल: कुधा' ख. ६. एकोष्ठान्तर्गतपाठः स्व-पुस्तके त्रुटितः सिस्ता