पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-विनयवत्याख्यायिका center=बृहत्कथामञ्जरीright=२२७
 

पर्यन्तवृत्तिसंपत्त्या वियोगे देहजीवयोः ।
मनो निविशते यत्र तूर्णं याति तदात्मताम् ।। १४१॥
स राजहंसः प्रेयस्या सह फुल्लाब्जशोभिषु ।
सरोवरेषु लहरीकेलीदोलापितोऽभवत् ॥ १४२ ॥
कनकाम्बुजजालेषु लीलाकण्डूयनेन सः ।
विललास विलासिन्या. क्षणं कुटिलकन्धरः ।। १४३ ।।
मेघवातवियोगैश्च पुनर्दैवाश्च संगमैः ।
तयोर्दीर्घतरः कालो विषामृतमयो ययौ । १४४ ॥
कदाचिज्जालबद्धं सा तं प्रियं वीक्ष्य सारसी।
जहार राजपुत्रस्य कस्यचिन्मणिसूत्रिकाम् ॥ 145 ॥
तदाशयां परित्यज्य जालं यातेऽथ लुब्धके ।
(सुप्तं तरुतले दृष्ट्वा मर्कटं साथ चिन्तयत् ॥ १४६ ।।
भतुर्विमुक्त्युपायोऽयं प्राप्तो दिष्टया मयेत्यधः) ।
दूरे रत्नावलीं त्यक्त्वा सा तुण्डेनादशत्कपिम् ॥ १४७ ।।
स सुप्तस्ताड़ितो नेत्रे जालं सपदि मर्कटः ।
चिच्छेद तारचीत्कारो वह्निदग्ध इवोत्पलम् ॥ १४८ ॥
छिन्नपाशे महाजाले सा हंसी प्रियसंगता ।
पद्माकरं जगामान्यं धिया वञ्चितलुब्धका ॥ १४९ ॥
लुब्धकोऽन्यथ तां प्राप्य रत्नमालां समागतः।
दृष्टो राजसुतेनाराच्छङ्कितो विस्खलत्पदः ॥ 150 ॥
परिज्ञाय निजां रत्नसूत्रिकां राजसूनुना ।
निर्गृहीतो न वा कस्य लोभात्प्राप्तं विनश्यति ॥ 151 ।।
कदाचिदथ हंसोऽसौ कमलं प्रियया सह ।
समादाय गतो व्योम्ना निषादेनेषुणा हतः ॥ १५२ ॥


१.च्यासाद्' स.

३. बालेन' ख. ४. एतत्कोष्ठान्तगतपाठ ख-पुस्तके त्रुटितो भवेत् . ५. 'निए' ख.