पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
काव्यमाला ।

प्रियेण रहिता साथ ययौ सुरभिकाननम् ।
विधाय भ्रमरीरूपं विलपन्तीव गुञ्जितैः ॥ १२९ ।।
तस्या दयितसंकल्पाद्बीजं जम्बूतरोः स्वयम् ।
प्रस्कन्नं कुसुमे तेन तत्कुले कन्यकाभवत् ॥ १३०॥
कालेन तत्फलाहारी विजितासुर्महामुनिः ।
तां प्राप्य करुणासिन्धुः पुपोष तनयां शिवः ।। १३१ ॥
ततो विनयवत्याख्या सा प्राप्तनवयौवना ।
मुनेस्तस्याश्रमे दृष्टा मया ललितलोचना ।। १३३ ॥
तां हर्तुमुद्यतं यनान्मां शशाप मुनीश्वरः ।
रूपमत्तो विरूपां त्वमुष्ट्रतामेव्यसीति सः ।। १३३ ।।
निहतः पुष्कराक्षेण राज्ञा स्वां तनुमेष्यसि ।
भर्ता विनयवत्याश्च स एव भविता नृपः ॥ १३४ ।।
इत्येवं मुनिना शप्तो मोचितोऽद्य त्वया विभो ।
स्वस्त्यस्तु ते व्रजामीति स निगध दिवं ययौ ॥ 135 ॥
स्वपुरीं पुष्कराक्षोऽथ प्रविश्य स्मरतापितः ।
सचिवार्पितभूभारो ययौ प्राप्तुं मुनेः सुताम् ॥ १३६ ॥
गौरीवरात्समुत्तीर्य सोऽब्धि सिद्धतपोवने ।
विजितासु मुनिं प्राप्य प्रणनाम स चाब्रवीत् ॥ १३७ ।।
तवैव पूर्वदयिता कन्या विनयवत्यसौ ।
गृहाणेमां मया दत्तां वैजयन्तीं मनोभुवः ॥ १३८ ।
ताम्रलिप्तां वणिक्पूर्वं धर्मसेनो वधूसखः ।
चौरप्रहाररुग्णाङ्गो दीर्घरोगोऽग्निमाविशत् ॥ १३९ ।।
स हंसमिथुनं व्योम्नि दृष्ट्वा तन्न्यस्तलोचनः
सभार्यः पञ्चतां प्राप्य प्रयातो राजहंसताम् ।। १४० ॥


१. वीर्य स्ख.... "फ खः३. “दपी ख.४, "यह 6. ५. 'एबमुक्ला

पुष्कराख्यं खचरो गगनं ययौ खः ६ वन्यस्त ख.