पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
]
२२४
बृहत्कथामञ्जरी ।

ययाचे सोऽथ दूतेन भद्रबाहुं नृपात्मजम् ।
गजं सर्पहतं ज्ञात्वा राजा भीतश्च तां ददौ ॥ 116 ॥
इत्येवं धीमतां बुद्धया भवन्त्यखिलसिद्धयः ।
पशूनामिव मूर्खाणां धीहीनं तु बलं वृथा ॥ ११७ ।।
इति मन्त्रगुप्ताख्यायिका ॥ ३ ॥
राजसूनोरिति वचः श्रुत्वा चित्रकथोऽब्रवीत् ।
अस्ति तक्षशिला नाम नगरी संपदां पदम् ॥ ११८ ॥
तस्यां चन्द्राक्षनामाभून्नृपतिर्धर्मभूषणः ।
मतिक्षीणः क्षमेवासीत्प्रिया तस्याचलप्रभा ॥ ११९ ।।
पुत्रकामः स नृपतिः शतपत्रशताष्टकम् ।
नित्यं ध्यात्वा श्रियं देवीं जुहावाग्नौ यतव्रतः ॥ १२0 ॥
ततः कदाचिदेकोने प्राप्ते पद्मशताष्टके ।
अत्यन्तशूरो हृत्पद्मं विदार्य प्रददौ निजम् ॥ १२१ ॥
अथ श्रीस्तस्य वरदा खड्गधारानिवासिनी ।
तुष्टा दिदेश तनयं शेखरं सर्वभूभुजाम् ॥ १२२ ॥
स पुष्कराक्षनामाभूच्छ्रीवरानृपतेः सुतः ।
धृतः पित्रा निजपदे लक्ष्मीसंक्रान्तिदर्पणः ॥ १२३ ॥
सः कदाचिन्मृगव्यायामुष्ट्रेण प्राप्तमन्तिकात् ।
ददर्श भोगिमिथुनं भीतं कारुण्यवादधीः ॥ १२४ ॥
उष्ट्रं जघान बाणेन स भुजङ्गमयप्रदम् ।
उष्ट्ररूपं परित्यज्य स च व्योमचरोऽभवत् ॥ 125 ॥
सोऽब्रवीत्त्वत्प्रसादेन शापान्मुक्तः करोम्यहम् ।
प्रिय तथोपकारस्य पुष्कराक्ष यथोचितम् ॥ १२६ ।।
आसीत्तारावली नाम दयिता रडकुमालिनः ।
विद्याधरी खेचरस्य रोहिणीवामृतत्विषः ॥ १२७ ।।
स्वयंवरप्रिया पित्रा शप्ता साथ वियोगिनी ।
चचार बालहरिणी यूथहीनेव कानने ।। १२८ ।।


"मिन्द्रा ख. २. 'मनीषिणः ख, ३. 'मौनो' ख.. ४, कातराख,