पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
काव्यमाला ।

युक्त्या वाराणसीं गत्वा सह शिष्यैरभूद्रती ॥ १०३ ॥
तन्त्र प्रसिद्धिमायातः सिद्धान्ताख्यानकोविदः
भ्रमन्निशि ददर्शाथ स्त्रियं द्वित्रिनरानुगाम् ॥ १०४ ॥
साब्रवीत्तान्विमुञ्चन्तु मां भवन्तो मुहूर्तकम् ।
कुञ्जरेन्द्रं भोजयित्वा तूर्णमायाति मे पतिः ।। 105 ।।
इत्याकर्ण्य महामात्यो ज्ञात्वा तां गजपालिकाम् ।
व्रजन्तीं तां समादाय तेषां गृहमवैक्षत ॥ 106 ॥
ततः प्रभाते दयितारहितो हस्तिपालकः ।
शोकाद्भुक्तविषो दृष्टस्तच्छिष्यैर्बान्धवाकुलः ।। १०७ !!
तस्य मित्रैरन्वितास्ते हर्तुं विषविषूचिकाम् ।
तं गुरोर्व्रतिवेषस्य मन्त्रिणो निन्युरन्तिकम् ॥ १०८॥
स तं वीतविषं कृत्वा प्राह तं लप्स्यसे वधूम् ।
मद्वरादिति संभाष्य तस्मै चौरानदर्शयत् ॥ १०९ ॥
ततो हस्तिपकः शूरो हत्वा तान्प्राप्य तां प्रियाम् ।
प्रणम्य प्राह भोक्तुं मे गृहमर्हति मन्त्रिणम् ॥ ११० ॥
सोऽवदत्पुत्र नास्माकमुचितो गृहसंगमः ।
श्रुत्वेति हस्तिपः प्राह हस्तिशालामुपैहि मे ॥ १११ ॥
इति तेनार्थितो मन्त्री सशिष्यो नक्तभोजनः ।
प्रभुकार्यार्थमविशद्रतिवेषो गजालयम् ।। ११२ ॥
कृष्णसर्पं समाधाय सुषिरे वेणुनालिके
तत्र भुक्तोत्तरं कर्णे विदधे तस्य दन्तिनः ॥ ११३ ।।
प्रसुप्ते मधुसंमत्ते गजपालकमण्डले ।
स गजः कृष्णसर्पस्य फूत्कारैर्विवशोऽपतत् ॥ ११४ ॥
ततः प्रभाते स ययौ मागधस्यान्तिकं प्रभोः ।
तापसव्यञ्जनो मन्त्री पूजां भेजे च भूभुजः ॥ ११५ ॥


राध ख.१२. 'ता: समादाय याताना वेषां गृहमवेक्षत' ख. ३. 'रथिता ख.

मिहीति ख५ मृत सामिान् ययौ धीमान् मागधस्यान्ति ख.