पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-मन्त्रगुप्ताख्यायिका ।
बृहत्कथामञ्जरी ।right=२२३

आश्चर्यं दृष्टवान्स्वप्ने बत भीमपराक्रमः ।
मयाप्यद्यैव यदृृष्टं स्वप्नं तच्च निशम्यताम् ॥ ९२ ॥
युष्माभिः सहितो गन्तुं प्रस्थितो विकटाटवीम् ।
अहं तृषापरिश्रान्तः प्राप्तः शीतजलां नदीम् ।। ९३ ॥
वयं निषिद्धाः खङ्गाग्रहस्तैस्तत्र ततो नरैः ।
यावत्क्रोधाकुलास्तावन्नदी सादृश्यतां ययौ ॥ ९४ ॥
ततस्तृष्णाभितप्तेन मया दृष्टः स्वयं शिवः ।
तत्र नेत्रात्रिनेत्रस्य पेतुरश्रुकणाः क्षितौ ॥ ९५ ॥
समुद्रता स संप्राप्तः पीतः शर्वाज्ञया मया ।
रक्ताक्तेन कपालेन तन्मध्यान्मौक्तिकावली ॥ ९६ ॥
मया लब्धा शशिसिता साद्य कण्ठे निवेशिता ।
निशम्य राजपुत्रेण तत्स्वप्नमिति वर्णितम् ॥ १७ ॥
प्रशशंसुः प्रियावाप्तिं जयं चास्योत्तमं पुरः।
नूतनाङ्कुरितोत्कण्ठः पुनः प्राह नृपात्मजः ॥ ९८ ॥
राजा कन्दर्पसेनोऽसौ सत्त्वसाध्यो महावलः ।
याचितोऽपि न कन्यां स प्रयच्छति रणोत्कटः ॥ 99॥
दुर्गाश्रयो महाकोशो रक्तामात्यो महायतिः ।
तस्मादुपायविच्छेदे धिया कार्ये विचिन्त्यताम् ।
सतां हि वस्तुसंदेहे बुद्धिरभ्युदयश्रिये ॥ 100 ॥
मगधाधिपतिः पूर्वं भद्रबाहुर्वराकृतिः।
धर्मगोपस्य नृपतेः सुतां श्रुत्वाभ्ययाचत ॥ १०१ ॥
अनङ्गलीलां न ददौ स तां वाराणसीपतिः ।
तस्मै दिग्गजतुल्येन गजराजेन गर्वितः ॥ १०२ ॥
भद्रबाहोर्महामात्यो मन्त्रगुप्ताभिधस्ततः ।


३. 'पतिटोऽश्रृंकणः' ख..

१. कान्तःख. २. गताद