पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
काव्यमाला ।

ततः कदाचित्तं प्राह स्वैरं भीमपराक्रमः !
देव स्वप्ने मया दृष्टः श्रूयतां कौतुकं महत् ॥ ७९ ॥
तमोभिरञ्जनशिलापुञ्जरिव पुरस्कृतम् ।
अपश्यं मत्तमातङ्गकपोलमलिनं जगत् ।। ८०
ततः शुभ्रनखश्रेणीविसूत्रैततमःपटः ।
ज्वालाविलोलजिह्वाग्रो मृगेन्द्रोऽभिससार तम् ॥ ८१ ॥
स मया कृष्टशस्त्रेण समाहूतो ययौ जवात् । ..
सरितः पारमुत्ताललाङ्गूलकपिकेसरः ।। ८२ ॥
अपरां निर्गतो तस्य जिह्वां छित्त्वाहमागतः ।
तयैवोत्तीर्य तटिनीं तदन्तिकमुपागतः ॥ 83 ॥
ततो वेतालतां यातं तमपृच्छं कुतूहलात् ।
भार्या मृगाङ्कदत्तस्य का भवित्रीत्यलुप्तधीः ॥ ८४ !!
स प्राहास्ति सुरावासयिन्युज्जयिनी पुरी।
तस्यां कन्दर्पसेनोऽस्ति राजा कन्दर्पदर्पजित् ॥ ८५ ॥
उत्पन्ना च कलावत्यां कन्यास्ति कमलेक्षणा ।
पुत्री शशाङ्कवत्याख्या प्रत्याख्यात्री शशिश्रियः ।। ८६ ॥
सुन्दरी सुरभिश्वासा सुधार्द्रसुभगस्वरा ।
सुकुमारतरा यस्यास्तनुः सर्वेन्द्रियोत्सवा ॥ 87 ॥
विलासहासकुसुमा कटाक्षोद्धान्तषट्पदा ।
यौवनोपवने यस्याः फुल्ला बिभ्रममञ्जरी ॥ 88 ॥
हाररत्नकरस्मेरत्रिवली मुष्टिमुद्रिता.।
भाति रोमावली यस्याः कामहस्तासिवल्लरी ।। ८९ ॥
हरप्रसादादहिता वल्लभासौ भविष्यति ।
राज्ञो मृगाङ्कदत्तस्य निगद्येति तिरोदधे ॥ ९०
श्रुत्वेति राजतनयः सुहृदः स्वप्नकौतुकम् ।
कृत्वा विदितवृत्तान्तानुवाच सचिवान्पुनः ॥ २१ ॥


'माम् ख. २. हृत ख. ३. 'तस्यास्ति' ख. ४. "स्येवासिवलरी ख.