पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. शशावत्याम्-मन्त्रगुप्ताख्यायिका ।]
 

लब्धसंज्ञः स विलपन्प्रियां मदनमञ्चुकाम् ।
महामुनि पुरो दृष्ट्वा प्रणनाम ह्रिया नतः ॥ 66 ॥
तं पिशङ्गजटः प्राह धैर्याब्धे मा शुच प्रियाम् ।
भवन्ति महतामेव दुःसहा दैवविक्रियाः ॥ 67 ॥
उक्त्वेति तं निनायाशु स मुनिर्निजमाश्रमम् ।
मुनिकन्याकराकीर्णनीवारहरिणाकुलम् ॥ ६८ ॥
तत्रार्द्रचन्दनरसैरुपलिप्तो जटाङ्गणे ।
नरवाहनमासीनं मुनिमध्येऽभ्यधान्मुनिः ॥ 69 ॥
नरवाहन सहस्वैतं दुःसहं बिरहानलम् ।
अचिरात्प्राप्स्यसि मनःसुधां मदनमञ्चुकाम् ॥ ७० ॥
श्रूयतां राजपुत्रेण यथाप्ता वल्लभा पुरा ।
राजन्मृगाङ्कदत्तेन निस्तीर्य विरहोदधिम् ॥ ७१ ।।
अयोध्येत्यस्ति नगरी स्फाटिकैर्या महागृहैः ।
कैलासवासरसिकं हसतीव महेश्वरम् ॥ ७२ ॥
तस्याममरदत्ताख्यो बभूव वसुधाधिपः ।
यत्कीर्तिकौमुदी चित्रा लोकाम्बुजविकासिनी ॥ 73 ॥
मृगाङ्कदत्तस्तस्यासीत्तनयः कान्तिभूषणः ।
यशःसरसि विस्फार मृगाङ्क इव बिम्बतः ॥ ७४||
शरीरतुल्यास्तस्यासन्विक्रान्ताः सचिवा दश !
स्वच्छासु दिक्षु दशसु प्रथिता इव मूर्तयः ॥ 75 ॥
स्थूलबाहुर्मेधबलस्तथा विक्रम केसरी !
व्याघ्रसेनो विमलधीर्दृढमुष्टिर्गुणाकरः ॥ ७६ ॥
चण्डशक्तिश्चित्रकथस्तथा भीमपराक्रमः ।
इति कर्मेरिताभिख्या बभूवुस्तस्य ते प्रियाः ।। ७७ ॥
ईश्वरो भूतसुभगैः स तैर्दशभिरावभौ ।
एकादशात्मा संप्राप्तो रुद्रसाम्यदशामिव ॥ ७९ ॥


१. 'दः स मूर्तिमानिव' ख.