पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
काव्यमाला ।

विद्यां श्रीपर्वते ध्यात्वा खड्गविद्याधरोऽभवत् ॥ ५३॥
कान्तिमत्यामहं तस्य नाम्ना ललितलोचना ।
जाता विद्याधरेन्द्रस्य मलयाचलवासिनः ॥ 5४ ॥
साहं गौरीवराद्दिष्टा तव भार्या कुलोचिता ।
नास्म्ययोगकुलोत्पन्ना येनैतत्कथितं त्वया ॥ 55 ॥
इति कान्तावचः श्रुत्वा विश्रब्धं नरवाहनः ।
विजहार तया बालश्रीखण्डतरुमण्डले ॥ 5६ ॥
तत्र लीलारतश्रान्तभुजङ्गमिथुनस्पृशः ।
चन्दनामोदसुभगा मरुतस्तं सिषेविरे ॥ 5७ ॥
पुन्नागचम्पकाशोकचूतकिंशुककेसरैः !
मालतीषु रतिं लेभे तटेषु दयितासखः ॥ 5८ ॥
इति ललितलोचनालापकथा ॥ २॥
ततः पुष्पोच्चयक्रीडाव्यग्रां ललितलोचनाम् ।
दृष्ट्वा दिव्यसरः स्नातुं प्रययौ नरवाहनः ।। ५९ ॥
कमलाकेलिसदने प्रफुल्लकमलाकरे ।
स्नात्वार्चयित्वा श्रीकण्ठमुपकण्ठं व्यलोकयत् !! 60 ॥
ततः सस्मार सहसा प्रियां मदनमञ्चुकाम् ।
रमणीयेषु यत्सत्यं स्मर्यते दयितो जनः ॥ ६१ ॥
वदनं शतपत्रेषु दृशं नीलोत्पलेषु च ।
वीचिषु भ्रूविलासं च स शुशोच मृगीदृशः ॥ ६२ ।।
कलहंसकुलक्वाणकमनीयां सर श्रियम् ।
पश्यन्प्रदध्यौ दयितां लीलामुखरमेखलाम् ॥ ६३ ॥
मत्तालिमालावलयव्यालोलनलिनीतटे।
स्मृत्वा केलिरतालोलालकां तां च मुमोह सः ॥ ६४ ॥
पिशङ्गजटनासाथ तमेत्य मुनिसत्तमः ।
प्रत्यग्रत्चन्दनरसैः सिषेच करुणानिधिः ॥ 6५ ॥


"संभोगका ख. २ ख. ३. 'दृष्टेषु ख.. ४. 'कानी कान्तां मुमो ख,