पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
बृहत्कथामञ्जरी।

इति तद्वचसा शङ्काकुलितोऽहमलक्षितः ।
स्थितः प्राकारमुल्लङ्घय फुल्लवल्लीनिकुञ्जके ॥ ४१ ॥
ततो महिषपालेन संगतां निजवल्लभाम् ।
अपश्यं प्रेमविश्वासकेलिलीलानिरर्गलाम् ॥ ४२ ॥
ततोऽहं भृशसंक्रुद्धो निहन्तुं पारदारिकम् ।
समुद्यत्तस्तया दृष्टो धाष्टर्यनिष्कम्पया पुनः ॥ १३ ॥
सा दृष्ट्वा मूर्ध्नि चिक्षेप धूलिमुष्ट्यञ्जलेन मे।
किल्विषापह्रवक्रौर्यधीरा नार्यो हि दुर्जयाः ॥ ४४ ॥
ततो महिषतां यातः सहसाहं महाकृतिः।
कोपान्महिषपालेन तद्विरा तेन ताडितः ॥ ४५ ॥
बद्धं महिपशालायां ततः कालेन मां वणिक् !
कश्चिन्निनाय मूल्येन दूरभारातिवाहिकम् ॥ ४६ ॥
कदाचिदथ दूराध्वनिःसहं शुष्कविग्रहम् ।
कन्यकानुगतापश्यत्कापि मामुत्तमाङ्गना ॥ १७ ॥
सा दिव्यदृष्टिः कारुण्यात्स्नातुं गङ्गाजलेन माम् ।
अनलस्यैव महिषाकारं बन्धादमोचयत् ॥ ४८ ॥
ततः प्राप्तस्वरूपाय सा मह्यं तनयां ददौ ।
कान्तां कान्तिमती् नाम सिद्धिं मूर्तिमतीमिव ॥ १९ ॥
अथ स्वगृहमागत्य तद्दत्तैः सिद्धसर्वपैः ।
सा कुभार्या मया दूरादाहत्ता बडवाभवत् ॥ ५० ॥
सेयं स्थिता मन्दुरायां सततं लगुडैर्मया !
ताड्यते पञ्चभिर्नित्यं तदर्थं चासि निर्गतः ।। ५१ ॥
श्रुत्वेति विस्मिते याते तस्मिन्नभ्यागते द्विजे ।
जननी योगसंसिद्धा कान्तिमत्याः समाययौ ।। ५२ ।।
तच्छिक्षया वामदत्तः कालसंकर्षणोऽसिनः ।


१. 'टि बलेन ख. २. 'अथावलोक्य' ख.३. 'न्च खां तन' ख.. ४. 'वी' ख.

"काले संकर्षिणीं श्रितः ख.